SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कारि० ३६५-३७१] २. अनुमानप्रस्ताव: अन्यथाऽसंभवाभावभेदात्स बहुधा स्मृतः॥३६५॥ [६४२५. कैः कृत्वा स बहुधा इत्याह-] विरुद्धासिद्धसन्दिग्धैरकिञ्चित्करविस्तरैः। [६४२६. भवतु तर्हि सान्वयनिरन्वयविशेष विवक्षारहितं तदुभयसाधारणं विनाशमात्रं धर्मी सिद्धत्वादिति चेन्न; विशेषद्वयस्यासंभवात् । नहि निरन्वयोऽपि विनाश: कचिदवगतिपथ-5 प्रस्थायी सान्वयस्यैव प्रतीतेः तत्कथं तयोः किञ्चित् सामान्य नाम यस्य हेतुम्प्रति आश्रयत्वमुपकल्प्येत ! तदेवाह सर्वथा नास्ति सामान्य परिणामविनाशयोः ॥३६६॥ यो हेतोराश्रयः, अनिष्टः, इष्टः खात्मा विशेषतः। [६ ४२७. तन्न कल्पनासिद्धस्य सिद्धत्वमित्यसिद्ध एव सत्त्वादिः, एतदेवाह-] 10 साध्यसाधनभावो न शब्दनाशित्वसत्त्वयोः ॥३६७॥ [ $ ४२८. अत्रैव प्रतिवस्तूपमया दृष्टान्तमाचष्टे-] अनलः पावकोऽग्नित्वादित्यनेकान्तविद्विषाम् । [$ ४२१. भवतु कल्पितस्तत्रानेकान्तः इति चेन्न; अनवस्थादोषस्योद्घोषितत्वात् ।। भवतः कथं तयोस्तद्भाव इति चेदाह-] 15 सर्वान्यसदृशः शब्दः सत्त्वादिपरिणामतः ॥३६८॥ सर्वार्थान्यासमः शब्दः शब्दादिपरिणामतः। [$ ४३०. शब्दस्य परिणामि (णाम) त्वे परिणामिना भवितव्यम् तस्य तद्धर्मत्वात् । न चासौ कश्चिदप्यस्तीति चेन्न; पुद्गलपरमाणूनां भावात् । एतदेवाह-] अणूनां श्रुतयोग्यत्वातिशयादानहानयः ॥३६९॥ 20 शब्दोत्पत्तिविनाशास्तत्साध्यसाधनसंस्थितिः । [$ ४३१. सम्प्रति चिरन्तनाचार्यानुस्मरणेन पुण्यातिशयावाप्तिमनुसन्दधानः श्रीमत्पात्रकेसरिवचनेन हेत्वाभासानामुपसंहारं दर्शयन्नाह-] अन्यथानुपपन्नत्वरहिता ये विलक्षणाः ॥३७०॥ अकिश्चित्कारकान् सर्वांस्तान् वयं सङ्गिरामहे । [६ ४३२. सम्प्रति दूषणाभासं दर्शन्नाह-] तत्र मिथ्योत्तरं जातिः, [s ४३३. कीदृशं तदित्याह-] यथाऽनेकान्तविद्विषाम् ॥३७१॥ दध्युष्ट्रादेरभेदत्वप्रसङ्गादेकचोदनम् । 30 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy