________________
७७
10
कारि० ३४६-३५६] . २. अनुमानप्रस्तावः [६४०७. येषां तु त्रैरूप्याद्गमकत्वं तन्मत्या हेतव एवेत्याह-]
रागादिसाधनाः स्पष्टा एकलक्षणविद्विषाम् ॥३४९॥ [$ ४०८. परकीयं तत्रोत्तरं दर्शयति-]
धर्मिधर्मस्य सन्देहे व्यतिरेके ततो भवेत् ।
असिद्धिः प्रतिबन्धस्येत्यपरे प्रतिपेदिरे ॥३५०॥ [$ ४०६. अत्रोत्तरमाह-]
वाचो विरुद्धकार्यस्य सिद्धिः सर्वज्ञबाधिनी ।
शिरःपाण्यादिमत्त्वाद्या विरुद्धव्याप्तिसिद्धयः॥३५१॥ [$ ४१०. तदेवं विरुद्धकार्योपलब्धि विरुद्धव्याप्तोपलब्धिश्च प्रतिपाद्य व्यापकविरुद्धोपलब्ध्यादिनाऽपि तद्बाधनं दर्शयन्नाह-]
सत्सम्प्रयोगजत्वेन विरुद्धः सकलग्रहः ।
स्वभावकारणासिद्धेरेकलक्षणविद्विषाम् ॥३५२॥ [$ ४११. एवमेते वचनादयः कार्यस्वभावानुपलम्भरूपतया त्रैविध्यमपरित्यजन्तोऽपि अन्यथानुपपत्तिवैकल्यादेव अगमकाः, तदेव दर्शयति-]
कथन्न सम्भवी वक्ता सर्वज्ञस्तस्य तेन नो।
यावत्प्रकृष्यते रूपं तावत्कार्यं विरुध्यते ? ॥३५३॥ [$ ४१२. स्यादेवं यदि विज्ञानाद्वचनम् , न चैवं विवक्षायास्तत्कारणत्वात् । सा च रागविशेषत्वेन दोषात्मा सती विधूताशेषदोषतो निःशेषतत्त्वज्ञानान्निवर्तमाना वचनमपि निवर्तयत्येव । तत्कथन्नान्यथानुपपत्तिर्यतः तत्सुगतादावनिवर्तितप्रसरतया प्रवर्त्तमानं विवक्षा दोषोपस्थापनेन निःशेषवेदित्वं व्यापादयेदिति चेदत्राह-]
20 विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्ष्यते ।
वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥३५४॥ [$ ४१३. अतो विज्ञानहेतुकैव तत्प्रवृत्तिरेतदेव दर्शयन्नाह-]
प्रज्ञा येषु पटीयस्यः प्रायो वचनहेतवः । विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ॥३५५॥
25 [$ ४१४. भवतु वा विवक्षा, तथापि न दोष इत्याह-]
अप्रमत्ता विवक्षेयम्, अन्यथा नियमात्ययात् । [$ ४१५. ततः सा प्रमादरहितैव ततो न दोषवतीत्याह-]
इष्टं सत्यं हितं वक्तुमिच्छा दोषवती कथम् ? ॥३५६॥ [ ४१६. कुतः पुनः कस्यचित् सकलज्ञानं यतः 'कथम्' इत्याधुच्यते इति चेदत्राह-]30
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org