________________
।
15
कारि० ३१६-३२२]
२. अनुमानप्रस्तावः [६३७३. एकस्य खपरप्रतिभासिनः खभावद्वयस्यासंभवात्, अत आत्मानमेव प्रत्ययः प्रतिभासयतीति चेदत्राह-]
आसादितविशेषाणामणूनामतिवृत्तितः।
एकाकारविवेकेन नैकैकप्रतिपत्तयः॥३१६॥ [६ ३७४. भवत्वेवं युगपच्चित्रमेव न तत्क्रमेण क्षणिकत्वादिति चेन्न; चित्रस्यापि क्षणक्षीण-5 शरीरस्याऽप्रतिवेदनादेतदेवाह-]
कालापकषपर्यन्तविवर्त्तातिशया गतिः। अशक्तेरणुवत् सेयमनेकान्तानुरोधिनी ॥३१७॥
अंशग्रहविवेकत्वान्मन्दाः किमतिशेरते ? । [$३७५. सत्यपि तदभ्यासात् बहिस्तेषां खाकारनिर्णये नातः (नान्तः) तत्संभवः इत्याह-] 10
निर्णयेऽनिर्णयान्मोहो बहिरन्तश्च तादृशः ॥३१८॥ [$ ३७६. [महामतित्वं] प्रतिक्षणपरिणामादिसकलसूक्ष्मविशेषेष्वपि किन्नेति चेत् ? स्यादेव यद्यसावनावृतः स्यादेतदेव दर्शयति-]
जीवः प्रतिक्षणं भिन्नश्चेतनो यदि नावृतः।
सकलग्रहसामर्थ्यात्तथाऽऽत्मानं प्रकाशयेत् ॥३१९॥ [६३७७. प्रतिक्षणपरिणामे जीवस्य क्षणिकत्वमेव न नित्यत्वमिति चेन्न; तस्यापि प्रत्यभि. ज्ञाबलेन तत्र व्यवस्थापितत्वात् । तदपि सदृशापरापरोत्पत्तिविभ्रमादेव न तात्त्विकादेकत्वादिति चेदत्राह-]
तादात्म्यात् प्रत्यभिज्ञा न सदृशापरहेतुतः । अवस्थान्तर्विशेषोऽपि बहिरन्तश्च लक्ष्यते ॥३२०॥
20 [$ ३७८. पुनरपि तादात्म्यात् प्रत्यभिज्ञानमित्यत्रोपपत्तिमाह-]
सूक्ष्मस्थूलतरा भावाः स्पष्टास्पष्टावभासिनः।
वितथेतरविज्ञाने प्रमाणेतरतां गते ॥३२१॥ [६३७६. माभूत्वयं परामर्शरूपं दर्शनं परामर्शस्य कारणं तु भवति संस्कारप्रबोधसहायमिति चेदत्राह-]
25 यस्मिन्नसति यज्जातं कार्यकारणता तयोः।
भेदिनां प्रत्यभिज्ञेति रचितोऽयं शिलाप्लवः ॥३२२॥ [३८०. तदेवं पक्षधर्मत्वादिकमन्तरेणापि अन्यथानुपपत्तिबलेन हेतोर्गमकत्वं तत्र तत्र स्थाने प्रतिवाद्यभेदं (पाद्य नेदं) स्वबुद्धिपरिकल्पितमपि तु परमागमसिद्धमित्युपदशयितुकामो भगवत्सीमन्धरस्वामितीर्थङ्करदेवसमवशरणात् गणधरदेवप्रसादादापादितं देव्या पद्मावत्या यदानीय 30 पात्रकेसरिवामिने समर्पितमन्यथानुपपत्तिवार्त्तिकं तदाह-]
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org