SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 30 ७२ न्यायविनिश्चये आकृतिभ्रमवद् यद्वद्विषमज्ञैर्विलोकितम् । न च तेऽर्थविदोऽर्थोऽर्थात् केवलं व्यवसीयते ॥ ३०८ ॥ [ ९३६४. तन्न व्यवसायार्थमपि दर्शनकल्पनमुपपन्नम् । भवतु व्यवहारार्थमेव तत्; अभ्यासदशायां दर्शनादेव व्यवसायनिरपेक्षाद् व्यवहारप्रवृत्तेरिति चेदाह - ] भावान्तरसमारोपे भाविताकारगोचराः । समक्षसंविदोऽर्थानां सन्निधिं नातिशेरते ॥ ३०९ ॥ [ 8३६५. ....कोऽपरः स्यादन्यत्र व्यवसायादिति तदात्मिकैव दृष्टिः, अन्यथा तस्याः तद्विषयस्य चानवकल्पनादित्यावेदयन्नाह-] [ ३६६. परमपि अरुचिविषयं दर्शयति-] [ कारि० ३०८-३१५ अणवः क्षणिकात्मानः किल स्पष्टावभासिनः । अतत्फलपरावृत्तार्थाकारस्मृतिहेतवः ॥ ३१०॥ [ ९३६७. ततो यथा तन्निर्णयात्तदाकारः तथा साधारणरूपमपि इति तस्यैव प्रत्यक्षवेद्यत्वमेतदेवाह–] [ ९३६८. तथा च यत्सिद्धं तदाह - ] स्थूलस्पष्टविकल्पार्थाः स्वयमिन्द्रियगोचराः । Jain Education International समानपरिणामात्मशब्दसङ्केतहेतवः ॥ ३११॥ [$३६९. साम्प्रतं तस्यास्ततोऽन्यत्वेऽपि तत्संवेदनवत् इन्द्रियप्रत्यक्षस्यापि व्यवसायात्मकत्वं दर्शयन्नाह-] स्वभावव्यवसायेषु निश्चयानां स्वतो गतेः । नाशस्यैकार्थरूपस्य प्रतीतिर्न विरुद्वयते ॥ ३१२॥ [ $ ३७०. भवतोऽपि खपरनिर्णयात्मनो ज्ञानस्य स्वत एव सच्चेतनादिवत् प्रतिक्षणपरिणामादेरपि निर्णयात् किं तत्र प्रमाणान्तरेणेति चेदाह - ] व्यामोहशबलाकारवेदनानां विचित्रता । साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते ॥ ३१३|| [$ ३७१. नन्वेवमगृहीताकारसंभवे कुतस्तदस्तित्वमित्यत्राह - ] संभावितान्यरूपाणां समानपरिणामिनाम् । प्रत्यक्षाणां परोक्षात्मा प्रमाणान्तरगोचरः ||३१४ || [ $ ३७२. कुतः पुनरिदमवगन्तव्यं प्रमाणान्तरगोचर आत्मा प्रत्यक्षाणामिति, प्रत्यक्षस्य तत्र तद्विषये च प्रमाणान्तरस्यावृत्तेः, उभयविषयस्य च कस्यचिदभावादिति चेदाह - ]. प्रत्ययः परमात्मानमपि च प्रतिभासयेत् । सत्यं परिस्फुटं येन तत्र प्रामाण्यमश्नुते ॥३१५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy