SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चये [कारि० ३२३-३३१ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥३२३॥ [$ ३८१. ततः सामस्त्येनैव तत्करणमभ्युपगन्तव्यं तच्च ततो न संभवति, तदेवाह-] प्रत्येति न प्रमाहेतुं प्रत्येति पुनरप्रमाम् । प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः !॥३२४॥ [६३८२. भवतु तर्हि प्रमाणादेव अनुमानाद् हेतुप्रतिपत्तिरिति चेदत्राह-] नियमेन न गृह्णाति निःशङ्कं चतुरस्रधीः। अन्यथाऽसंभवेज्ञाने ह्यर्थश्चात्मव्यवस्थितः ॥३२५॥ [ ३८३. तन्न कल्पितस्तद्भाव उपपन्नः, तदाह-] 10 प्रतिव्यूढस्तु तेनैव प्रभवोऽनलधूमयोः। प्रत्यक्षेऽर्थे प्रमाणेन विकल्पेन प्रकल्पितः ॥३२६॥ [ 8 ३८४. एवमेतत् प्रमाणतः प्रत्यक्षादेव तत्प्रतिपत्तेः एतदेव दर्शयति-] प्रत्यक्षानुपलम्भाभ्यां यदि तत्त्वं प्रतीयते । अन्यथानुपपन्नत्वमतः किन्न प्रतीयते ? ॥३२७॥ 15 [३८५. प्रतिबन्धो यदि असाधरणः न तस्मादनुमानम् , यत्र तत्सिद्धिः प्रत्यक्षात् साध्यस्यापि तत्र तत एव सिद्धेः अन्यत्र चाविद्यमानत्वात् । साधारणश्चेत् , न तर्हि स विषयः प्रत्यक्षस्य स्यात् , तस्य स्खलक्षण एव नियमादतः प्रमाणान्तरस्यैव विषयो वक्तव्यः, तदेवाह-] प्रमाणसाधनोपायः प्रमाणान्तरगोचरः। व्याप्यव्यापकभावोऽयमेकत्रापि विभाव्यते ॥३२८॥ 20 [३८६. प्रतिबन्धसमारोपनिवारणार्थ तन्निरूपणमिति कथं तद्व्यापारवान् विकल्पो ___न प्रमाणम् । अप्रमाणात्तन्निवारणायोगादनुमानवत् , एतदेवाह-] सत्यप्यन्वयविज्ञाने स तर्कपरिनिष्ठितः। अविनाभावसम्बन्धः साकल्येनावधार्यते ॥३२९॥ [$ ३८७. पुनरपि तर्कस्यैव प्रामाण्यं दृढयन्नाह-] सहदृष्टैश्च धर्मेस्तन्न विना तस्य संभवः । इति तर्कमपेक्षेत नियमेनैव लैङ्गिकम् ॥३३०॥ तस्माद् वस्तुबलादेव प्रमाणम् , [६३८८. यद्येवं भवतोऽपि तृतीयं प्रमाणं प्राप्तम् , प्रत्यक्षवत् परोक्षेऽप्यनन्तर्भावादिति चेदाह-] 80 मतिपूर्वकम् । बहुभेदं श्रुतं साक्षात्पारम्पर्येण चेष्यते ॥३३१॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy