________________
कारि० २४४-२५०] २. अनुमानप्रस्तावः [$ २७७. उपसंहरन्नाह-]
काये तस्मान्न ते तस्य परिणामाः सुखादयः॥२४४॥ [६ २७८. यत्रापि परिणामतद्वद्भावो घटकपालादौ तत्रापि प्रमितेऽपीत्यादि विद्यते, ततो व्यभिचारः; इति चेदाह-]
एतदत्र घटादीनां न तजातुचिदीक्ष्यते।। [$ २७६. गुणदूषणमप्यत्रातिदिशन्नाह-]
तुल्यश्च गुणपक्षेण तत्तथा परिणामतः॥२४५॥ [$२८०. कुत इदं संसारवैचित्र्यम् ?... तस्य च कर्मण एव तद्वैचित्र्यात् .. एतदेवाह-] अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत्।।
10 अन्यथा नियमायोगात् प्रतीतेरपलापतः ॥२४६॥ [$ २८१. स्वभावकल्पनायां सामर्थ्यस्य मुक्तिरूपस्थाभावात् कर्मफलमेव तद्वैचित्र्यं तदेवाह-]
कल्पनायामसामर्थ्यात्, [ 8 २८२. तदेवं तदहर्जातस्य परलोकित्वे कर्मसिद्ध्या सिद्धे यत्सिद्धं तदाह-] 15
ततस्तद्विकृते ऋते। पारम्पर्येण साक्षाच नास्ति विज्ञानविक्रिया ॥२४७॥ [8 २८३. तन्न शरीरपरतन्त्रो जीवः तदुपरमे व्यवस्थानात्तदहर्जातवत् । कुतो वा तस्य तत्परतन्त्रत्वम् ? तद्धेतुत्वादिति चेन्न; केवलादुत्पत्तौ मृतेऽपि प्रसङ्गात् । इन्द्रियसहायादिति चेत् ; 20 इन्द्रियाणामपि समुदायेन तत्सहायत्वं प्रत्येकं वा ? प्रथमविकल्पं निराकुर्वन्नाह-]
कारणं नाक्षसङ्घातः तत्प्रत्येकं विना भवात् । विकल्पानां विशेषाच तत्तद्वति विरोधतः॥२४८॥ जातिस्मराणां संवादादपि संस्कारसंस्थितेः।
अन्यथा कल्पयन् लोकमतिकामति केवलम् ॥२४९॥ 25 [8 २८४. ततः पौर्वभविकस्यैव तस्य तेन स्मरणमिति कथन्न जातिस्मराणां संवादः ? . एतदेवाह-]
नाऽस्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् ।
तद्धि जन्मान्तरान्न, [$ २८५. तदहर्जातस्य अभिलाष एव नास्ति तत्कुतस्तदनुमितिः ? इति चेदत्राह-] 30
अयं जातमात्रेऽपि लक्ष्यते ॥२५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org