________________
न्यायविनिश्चये
[ कारि० २५१-२५६ [६२८६. सत्यं लक्ष्यते, स तु न पौर्वभविकाद् अनुमाना ( अनुभवा ) दपि तु गर्भभाविन एव, तदाह-]
गर्भे रसविशेषाणां ग्रहणादिति कश्चन । तदादावभिलाषेण विना जातु यदृच्छया ॥२५१॥
तत्संस्कारान्वयेक्षत्वाद् भूयोभूयः प्रवर्तितः। [६२८७. तत्रोत्तरमाह-]
कोशपानं विधेयम्,
[१२८८. भवतोऽपि समानमिदं गर्भ [ग] तस्यापि पौर्वभविकादेवानुभवादे: स्मरणा__दित्यत्रापि प्रमाणाभावादिति चेदत्राह-] 10
न समं भूयस्तथा दृशः ॥२५२।। [ 8 २८९. पुनरपि गर्भ इत्यादि निराकुर्वन्नाह-]
रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् ?।
नावश्यं चक्षुरादीनां सर्वत्रोन्मीलनादयः॥ २५३ ॥
[६२१०. पुनरपि 'तद्विकृतेः' इत्यादि समर्थयितुमाह-] 15
तथा रागादयो दृष्टाः सङ्कल्पाद्यविनाभुवः। [६२६१. कथं तर्हि सामान्यस्मरणाद्विशेषे प्रवृत्तिरिति चेन्न; तस्य तस्मादव्यतिरेकात् दृष्टत्वाच्च, तदेवाह-]
तदाहारादिसामान्यस्मृतितद्विप्रमोषयोः ॥२५४॥
भावोऽभावश्च वृत्तीनां भेदेष्विह च दृश्यते। 20 [ २६२. उपसंहरन्नाह-]
तस्मात्संसारवैचित्र्यं नियमान्न विहन्यते ॥२५५॥ [६२९३ व्याहतमेव पिपीलिकाजीवस्य तच्छरीरपरित्यागेन हस्तिशरीरसश्चरणम्... इति चेदत्राह-]
न च कश्चिद्विरोधोऽस्ति देहान्तरपरिग्रहे। 25 [ २६४. तदेवम् ‘इह च दृश्यते' इत्यनेन तत्परिग्रहमुपपाद्य तदन्तरेणापि उपपा
दयन्नाह
तदभावे हि तद्भावप्रतिषेधो न युक्तिमान् ॥२५६॥ [६२१५. तस्माद् बुद्धिरियं पुरुषस्यैव स्वभावो न पृथिव्यादेः । चार्वाकस्तत्स्वभावत्वे दूषणमाह-]
बुद्धेः पुरुषतन्त्रत्वे नित्यत्वात्तदनुक्रिया। न भवेत्;
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org