________________
कारि० २२६-२३४ ] २. अनुमानप्रस्तावः . [$ २५८. भवतु स एव वादः, तत्रैव चेतनो देहस्य गुण इति चेदत्राह-]
नहि ज्ञानात्मना कचित् ॥२२९॥ शरीरग्रहणं येन तद्गुणः परिकल्प्यते । [ ६ २५१. वैशेषिकादेस्स्व ( देस्त्व ) गुणवान् गुण इति ब्रुवाणस्य न गन्धादेर्गुणत्वं गुणवत्त्वात् । तदेवाह-]
गुणानां गुणसम्बन्धो गन्धादेः सङ्ख्यया ग्रहात् ॥२३०॥
तादात्म्यं केन वार्येत ? [ 8 २६० ननूक्तं भाक्तत्वेन तन्निवारणमिति चेदत्राह-]
नोपचारप्रकल्पनम् । अत्रान्यत्रापि तुल्यत्वादाधारस्यैकरूपतः॥२३१॥ - 10 तत्रैकत्वं प्रसज्येत, सङ्ख्यामात्रं यदीष्यते ।
नानात्मविभ्रमादेवं न पृथग्गुणिनो गुणाः ॥२३२।। [ 8 २६१. आकारभेदात्ते ततः पृथगिति चेदेतदेवाह-]
प्रसक्तं रूपभेदाचेत्; [ 8 २६२. तत्रोत्तरमाह-]
भेदो नानात्वमुच्यते। [६२६३. नास्त्येव तत्रैकत्वं केवलं भावसादृश्यात्तत्र तद्व्यवहारः तदेवाह-]
एकता भावसाम्याचेत् ; [ 8 २६४. तत्रोत्तरमाह-]
उपचारस्तथा भवेत् ॥२३३॥ 20 [$ २६५. यदि च तत्र गुणवत्त्वभयान्न वास्तवमेकत्वं पृथक्त्वमपि न भवेत् , तदपि कुतश्चित्कार्यविशेषादेरुपचरितमेव स्यात् तदेवाह-]
भेदेऽपि, वस्तुरूपत्वान्न चेदन्यत्र तत्समम् । [ २६६. तन्न गुणगुण्यादीनामपृथक्त्वम् , भवतु पृथक्त्वमेव प्रतिभासादिभेदादिति चेदत्राह-]
एतेन भिन्नविज्ञानग्रहणादिकथा गता ॥२३४॥ [8 २६७. तन्न गुणो नाम कश्चिनिश्चितो य [त] श्चेतनोऽपि गुणः स्यात् । माभूत् धर्मस्तु तर्हि स्यात् , तदवष्टम्भेन अवस्थानात् चित्रवत् कुडयस्य । यथा कुडयाद्यपाये न चित्रं तत्र तिष्ठति नाप्यन्यत्र गच्छति नश्यत्येव परं तथा शरीरापाये चेतनोऽपि इति मन्वानस्य मतमुपदर्शयन्नाह-]
15
25
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org