________________
__15
न्यायविनिश्चये
[कारि० २२३-२२८ [8 २५१. कथं पुनरुपयोगवत्त्वे तस्य सुषुप्त्यादिः सत्यज्ञानस्वभावस्य तदसंभवादिति चेन्न; कर्मवशात्तस्यापि तदुपपत्तेः तदाह-]
कर्मणामपि कर्ताऽयं तत्फलस्यापि वेदकः। [$ २५२. परमपि तत्फलं दर्शयति-] 5 संसरेत् परिणामात्तो मुच्यते वा ततः पुनः ॥२२३॥
[६२५३. नन्वात्मा कर्म तत्फलं संसारो मुक्तिरिति च सत्येव मेदे, नचायमस्ति तदवस्थानोपायाभावात् । ततोऽद्वैतबोध एव परमार्थः तस्य स्वत एवाधिगमात् 'खरूपस्य खतो गतिः' इति वचनादिति चेदत्राह-]
आत्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां ब्रजेत् । 10
नानाऽयं क्रमशो वृत्तेर्न चेदभिधास्यते ॥२२४॥ [६ २५४. ततो युक्तं प्राणादिमत्त्वात् परिणामिन एवात्मनः साधनम् न कूटस्थस्य नापि ज्ञानसन्तानस्य तत्र तस्य विरुद्धत्वात् । परिणामिन्यपि विरुद्ध एवायं शरीरोपक्लुप्तादेव चैतन्यादुत्पत्तेरिति चार्वाकः । तदेवाह-]
भूतानामेव केषाञ्चित् परिणामविशेषतः।
कायश्चित्कारणम् ; [$२५५. तत्रोत्तरमाह-]
सोऽपि कथं संसारमुक्तिभाक् ? ॥२२॥ शक्तिभेदे तथा सिद्धिः; संज्ञा केन निवार्यते ?। यथा भूताविशेषेऽपि प्रज्ञादिगुणसंस्थितिः ॥२२६॥
तथा भूताविशेषेपि भवद्भूतादिसंस्थितिः। [६२५६. तन्न तद्गुणस्यापि तेनाभिव्यक्तिः, नापि तत्कार्यस्य वक्ष्यमाणोत्तरत्वात् । कथमेवं गुणनिषेधे गुणवद्र्व्यमित्युपपन्नं भवतोऽपि इति चेन्न; परकीयतल्लक्षणस्यैवातिव्याप्त्यादिना प्रतिषेधान्न गुणस्य । कथं तर्हि तदुपपत्तिरिति चेदाह-]
तस्मादनेकरूपस्य कथञ्चिद् ग्रहणे पुनः॥२२७॥ 25
तद्रूपं भेदमारोप्य गुण इत्यपि युज्यते । [ $ २५७. गुणतद्वतोः एकान्त एव भेदो न कथश्चित् , तद्वादस्य विरोधादिदोषादिति चेदत्राह
यदि स्वभावाद्भावोऽयं भिन्नो भावः कथं भवेत् १ ॥२२८॥ अनवस्थानतो भेदे सकलग्रहणं भवेत् । तदनेकान्तात्मकं तत्त्वम्,
15
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org