________________
कारि० २१५-२२२] २. अनुमानप्रस्तावः [$ २४४. कथं पुनरेकत्रानेकधर्मसद्भाव इत्यत्राह-]
एकत्र बहुभेदानां संभवान्मेचकादिवत् ॥२१५॥ [$२४५. कथं पुनः सामान्यस्य व्यक्तिव्यतिरिक्तस्याभावे तद्व्यवहार इति चेदत्राह-]
समानं केनचित्किञ्चिदपरश्च तथाविधम् । भेदवद्धर्मिणः कृत्वा समानाकारकल्पना ॥२१६॥ तदन्यत्र समानात्मा स एवेति तथाविधे। व्यवच्छेदस्वभावेषु विशेषणविशेष्यधीः ॥२१७॥
तत्तन्निमित्तकः शब्दः तदन्यत्रापि योज्यताम् । [२४६. यदि पुनः सदृशपरिणाम एव सामान्यं तस्य व्यक्तिवदनेकत्वात् कथं तत्र सत्तेत्येकतया व्यवहार इति चेदत्राह-]
10 ततः सत्तेति साध्यन्ते सन्तो भावाः स्वलक्षणाः॥२१८॥
नानैकवचनाः शब्दास्तथा सङ्केतिता यतः। [६२४७. यदि समानप्रत्यवमर्शात् सामान्यं तर्हि जलयोरिव जलमरीचिकाचक्रयोरपि भवेत् इदं जलमिदमपि जलमिति । तत्रापि प्रत्यवमर्शादिति चेन्न; तच्चक्रे प्रत्यवमर्शस्य बाध्यत्वेन मिथ्यात्वात् ततो निर्बाधादेव प्रत्यवमर्शात्तत्सिद्धरेतदेवाह-]
प्रत्यभिज्ञा द्विधा काचित् सादृश्यविनिबन्धना ॥२१९॥
प्रमाणपूर्विका नान्या दृष्टिमान्द्यादिदोषतः। [$२४८. कथं तर्हि बहिरादिवत् प्रधानस्यापि सत्त्वं ततो न साध्यते ? नान्वयादिति चेन्न; अन्वयस्य तन्मतेनालिङ्गलक्षणत्वात् इत्यत्राह-]
अस्ति प्रधानमित्यत्र लक्षणासम्भवित्वतः ॥२२०॥ 20 [ २४६. नन्वन्यथानुपपन्नत्वमपि सत्येव पक्षधर्मत्वादौ भवति, ततस्तदेव हेतुलक्षणम्। तदसत्त्वादेव च प्रधानास्तित्वमप्यसाध्यमिति चेन्न; तदभावेऽपि कचित्तदुपलम्भात् । तदाह-]
तत्रान्यत्रापि वाऽसिद्धं यद्विना यद्विहन्यते।
तत्र तद्गमकं तेन साध्यधर्मी च साधनम् ॥२२१॥ [8 २५०. ततो न मृतशरीरवत् सुषुप्तादावपि जाग्रज्ज्ञानादुत्पत्तिरिति सन्निहित एव 25 कश्चिद्धतुर्वक्तव्यः, स चात्मैव उपयोगपरिणामी नापर इति तत्रैव तस्य गमकत्वम् अन्यथानुपपत्तिसंभवादेतदेवाह-]
अप्रत्यक्षः सुषुप्तादौ बुद्धः प्रत्यक्षलक्षणः। जीवतीति यतः सोऽयं जीव आत्मोपयोगवान् ॥२२२॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org