________________
५४
5
10
न्यायविनिश्चये
[कारि० १७६-१८६ [६ १९७. साम्प्रतं सौत्रान्तिकं प्रति सत्तासाधनमाह-]
अक्षादेरप्यदृश्यस्य तत्कार्यव्यतिरेकतः। [६ १९८. एवमदृश्यस्यापि सत्ता प्रसाध्यते; तत्र परोक्तं दूषणं प्रत्याचक्षाण आह-]
एतेनातीन्द्रिये भावकार्यकारणतागतेः॥१७९॥
तत्सत्ताव्यवहाराणां प्रत्याख्यानं निवारितम् । [8 १९६. इदानीम् 'अतीन्द्रिये भाव' इत्यादिकमेव व्याचिख्यासुराह-]
व्याधिभूतग्रहादीनां विप्रकर्षेऽपि गम्यते ॥१८०॥ कुतश्चित्सदसद्भावविरोधप्रभवं तथा । प्रामाण्यमविसंवादाद् भ्रान्तिरध्यवसायतः ॥१८॥
प्रत्यक्षाभाप्रसङ्गश्चेत्तथानभिनिवेशतः।। [ २००. यद्यस्पष्टावभासित्वादनुमानमवस्तुविषयं प्रत्यक्षमपि कथश्चित्तथा भवेदित्याह-]
दूरदूरतरादिस्थैरेकं वस्तु समीक्ष्यते ॥१८२॥
नानाभं स्यात्तथा सत्यं न चेद्वस्त्वनुरोधि किम् ? । [$ २०१. इति सिद्धं तस्य स्पष्टज्ञानेनैकविषयत्वं भिन्नप्रतिभासत्वेऽपि तदेकार्थत्वात् , 16 एतदेव दर्शयन्नाह-]
तस्मादनुमितेरर्थविषयत्वनिराकृतिः ॥१८३॥
प्रतिभासभिदायाः किमेकस्यानेकतो ग्रहात् ? । [$ २०२. सिद्धं तर्हि वस्तुष्वेव प्रतिबन्धपरिज्ञानमनुमानस्य च साफल्यमेतदेवाह-]
समानपरिणामात्मसम्बन्धप्रतिपत्तितः॥१८४॥ 20 तत्राशक्तिफलाभावी न स्यातां लिङ्गलिङ्गिनोः।।
___ [ २०३. भवतु तत्परिणाम एव सामान्यम् , तस्य तु व्यक्तिभ्यो भेद एवेति यौगाः अभेद एवेति सांख्याः , तत्राह-]
न भेदोऽभेदरूपत्वात् नाऽभेदो भेदरूपतः ॥१८५।।
सामान्यं च विशेषाश्च तदपोद्धारकल्पनात् ।
२०४. अभेदस्यैव सर्वभावेषु.."प्रतिपत्तेः इति कश्चित् ; भेद एव भावानां तात्त्विकः न कथञ्चिदप्यनुगमः ." इत्यपरः, तत्रोत्तरमाह-]
संसर्गो नास्ति विश्लेषात्, विश्लेषोऽपि न केवलम् ॥१८६॥
संसर्गात् सर्वभावानां तथा संवित्तिसंभवात् । [8 २०५. कुतः पुनः समानपरिणाम एव सामान्यमभिमतम् [न] नैयायिकादिक80 ल्पितमेवेत्याह-]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org