________________
10
कारि० १७२-१७८ ] २. अनुमानप्रस्तावः [8 १८७. इदानीं साध्यं निरूपयन्नाह-]
' साध्यं शक्यमभिप्रेतमप्रसिद्धम् , [ १८८. साध्याभासं निरूपयति-]
ततोऽपरम् ॥१७२॥ साध्याभासं विरुद्धादि साधनाविषयत्वतः। [8 १८६. यद्यप्रसिद्ध साध्यं धर्मिणो विद्यमानमपि साध्यं भवेत् तत्रापि विप्रतिपत्तेः संभवात्तयाह-]
जातेर्विप्रतिपत्तीनां सत्ता साध्यानुषज्यते ॥१७३॥ [१ १९०. तत्रोत्तरमाह-]
तथेष्टत्वाददोषोऽयम्, [8 १६१. पर इदानीमशक्यसाध्यतां तस्यां [सत्तायां] दर्शयन्नाह-]
हेतोर्दोषत्रयं यदि। [$ १९२. शास्त्रकारस्तु उभयाभावधर्मयोरनभ्युपगमं परिहारं मन्यमानः परिहारान्तरमनुक्त्वा भावधर्मस्य असिद्धत्वमेव परिहरनाह-]
भ्रान्तेः पुरुषधर्मत्वाद्यथावस्तुबलागमम् ॥१७४॥ 15
प्रपेदे सर्वथा सर्वस्तुसत्तां प्रतिक्षिपन् । [8 १६३. ततः प्रतिष्ठापरिहारेण प्रतिक्षेपमेव ब्रुवता तात्त्विकमेव भावधर्मत्वं तस्याभ्युपगन्तव्यं तथाह-]
भावनादभ्युपैतिस्म भावधर्ममवस्तुनि ॥१७॥ [१६४. तदेवं निरुपाधिकं सत्त्वं प्रसाध्य सोपाधिकं साधयन्नाह-] ___20
असिद्धधर्मिधर्मत्वेऽन्यथाऽनुपपत्तिमान् । हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् ॥१७६॥
इष्टसिद्धिः परेषां वा तत्र वक्तुरकौशलम् । [१९५. ततः सत्येव भेदाभेदात्मिका तदिष्टसिद्धिरिदमेवाह-]
अतीतानागतादीनामपि सत्तांनुषङ्गवत् ॥१७७॥ 25
अतश्च बहिरानामपि सत्ता प्रसाध्यते। [६ १९६. ततः प्रत्यक्षादर्थसाधनोपपत्तेः स्थितमेतत्-'अतश्च' इत्यादि । यदि चायं निर्बन्धो न ततस्तत्साधनमिति तथापि तदाह-]
तदभावेऽपि तद्वादस्यान्यथानुपपत्तितः ॥१७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org