SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चये [ कारि० १६५-१७१ श्रोत्रादिवृत्तिः प्रत्यक्षं यदि तैमिरिकादिषु ॥१६५॥ प्रसङ्गः किमतवृत्तिस्तद्विकारानुकारिणी ? । [६ १८१. साम्प्रतं नैयायिकस्य प्रत्यक्षलक्षणमुपदर्य निराकुर्वन्नाह-] तथाऽक्षार्थमनस्कारसत्त्वसम्बन्धदर्शनम् ॥१६६॥ व्यवसायात्मसंवाद्यव्यपदेश्यं विरुद्धयते । [ १८२. पुनरपि नैयायिकस्य विरुद्धं दर्शयति-] नित्यः सर्वगतो ज्ञः सन् कस्यचित्समवायतः॥१६७॥ ज्ञाता द्रव्यादिकार्थस्य नेश्वरज्ञानसंग्रहः। [ १८३. भवताऽपि कस्मादतीन्द्रियप्रत्यक्षस्य लक्षणान्तरं नोच्यते ? इति चेदत्राह-] 10 लक्षणं समतावान् विशेषोऽशेषगोचरम् ॥१६८॥ अक्रमं करणातीतमकलकं महीयसाम् ॥१६८३॥ [१८४. भवतु तर्हि तत्सुगतस्यैव तत्रैव तल्लिङ्गस्य तत्त्वोपदेशस्य भावात् इति चेत् ; सस्यमिदं यदि तत्त्वोपदेश एव तत्र भवेत् , न चैवमत एवाह-] ज्ञात्वा विज्ञप्तिमात्रं परमपि च बहिर्भासिभावप्रवादम्, चक्रे लोकानुरोधात् घुनरपि सकलन्नेति तत्त्वं प्रपेदे। न ज्ञाता तस्य तस्मिन्न च फलमपरं ज्ञायते नापि किश्चित् , इत्यश्लीलं प्रमत्तःप्रलपति जडधीराकुलं व्याकुलाप्तः॥१६९३॥ इति न्यायविनिश्चये प्रथमः प्रत्यक्षप्रस्तावः ॥ 15 ___-098880 २. द्वितीयः अनुमानप्रस्तावः । 20 [ १८५. इदानीं परोक्षस्य तथानिरूपणमवसरप्राप्तमिति तत्प्रभेदमनुमानं निरूपयन्नाह-] साधानात् साध्यविज्ञानमनुमानं तदत्यये ॥१७॥ विरोधात् कचिदेकस्य विधानप्रतिषेधयोः । [8 १८६. प्रत्यक्षस्यापि न वस्तुतः स्वार्थपरिच्छेदः तत्काले तदर्थस्य कारणत्वेन व्यतिक्रमादपि तु तदाकारस्वरूपपरिच्छेदस्य तत्रारोपादौपचारिकवत् (कं तत्) तथाऽनुमानस्यापि 25 तत्परिच्छेदसाधने सिद्धसाधनमिति चेदत्राह-] प्रत्यक्षं परमात्मानमपि च प्रतिभासयेत् ॥१७॥ सत्यं परिस्फुटं येन तथा प्रामाण्यमश्नुते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy