________________
कारि० १५६-१६४ ] १. प्रत्यक्षप्रस्तावः
सन्तानान्तरवच्चेतः समनन्तरमेव किम् ? । शष्कुलीभक्षणादौ चेतावन्त्येव मनांस्यपि ॥१५९॥
यावन्तीन्द्रियचेतांसि प्रतिसन्धिर्न युज्यते । [६ १७२. तन्न तावत्त्वं मनसामुपपन्नम् , अथैकमेव सकलरूपादिविषयं तेभ्यो मनस्तदाह-]
अथैकं सर्वविषयमस्तु; [ १७३. अत्रोत्तरम्-]
किं वाऽक्षबुद्धिभिः ? ॥१६०॥ [ १७४. साम्प्रतं मनसामक्रमोत्पत्ता उक्तं प्रतिसन्ध्यभावं क्रमोत्पत्तावपि दर्शयन्नाह-] क्रमोत्पत्तौ सहोत्पत्तिविकल्पोऽयं विरुद्ध यते ।
10 अध्यक्षादिविरोधः स्यात्तेषामनुभवात्मनः ॥१६॥ [ १७५. तन्न शान्तभद्रपक्षो ज्यायान् । धर्मोत्तरस्त्वाह-न प्रत्यक्षादिप्रसिद्धत्वात् मानसं प्रत्यक्षमिष्यते यतोऽयं दोषः किन्तु आगमाधीनत्वात् । तत्र च परे दोषमुत्पादयन्ति यदि मानसमपि किश्चित् प्रत्यक्षं तर्हि नान्धो नाम कश्चित् लोचनविकलस्यापि तत्सम्भवात् ; इति तत्परिहाराय तल्लक्षणप्रणयनम्-'इन्द्रियज्ञानेन' इत्यादि । न हीन्द्रियज्ञानमन्धस्य यतस्तदुपादानस्य मानसप्र-15 त्यक्षस्य तत्र भावात्तव्यवहारो न भवेदिति; तत्रोत्तरमाह-]
वेदनादिवदिष्टं चेत्, कथन्नातिप्रसज्यते । [१७६. यत्पुनरुक्तम्-विप्रतिपत्तिनिराकरणाय तल्लक्षणमुच्यते इति; तत्राह-] .
प्रोक्षितं भक्षयेन्नेति दृष्टा विप्रतिपत्तयः ॥१६२॥ लक्षणं तु न कर्त्तव्यं प्रस्तावानुपयोगिषु ।
20 [ १७७. साम्प्रतमविकल्पकमित्यादिना सामान्यतः प्रतिक्षिप्तमपि स्वसंवेदनप्रत्यक्षं युक्त्यन्तरेण प्रतिक्षिपन्नाह-]
अध्यक्षमात्मवित्सर्वज्ञानानामभिधीयते ॥१६३॥
स्वापमूर्छाद्यवस्थोऽपि प्रत्यक्षी नाम किं भवेत् ? । [६ १७८. तदवस्थस्य ज्ञानमेव नास्ति, तद्भावे जाग्रत इव तत्त्वविरोधात् , ततः कथ- 25 मात्मवेदनं यतोऽयं प्रसङ्ग इति प्रज्ञाकरो ब्रह्मवादी च तत्रोत्तरं दर्शयति-]
विच्छेदे हि चतुःसत्यभावनादिविरुद्धयते ॥१६४॥ [ १७६. तन्न निश्चयविकलं संवित्तिमात्रमेव प्रत्यक्षम् । अत्रैवोपपत्त्यन्तरमाह-]
प्रायशो योगिविज्ञानमेतेन प्रतिवर्णितम् । [६१८०. साम्प्रतं सांख्यस्य प्रत्यक्षलक्षणं प्रत्याचक्षाण आह-]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org