SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चये [ कारि० १५१-१५८ प्रत्याचष्टे, समानन्यायतया तत्प्रत्याख्यानादेव द्रव्यत्वादेरपरसामान्यस्यापि प्रत्याख्यानोपनीता(नीतत्वा) त्-] नित्यं सर्वगतं सत्त्वं निरंशं व्यक्तिभिर्यदि ॥१५१॥ व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् । सत्तायोगाद्विना सन्ति यथा सत्तादयस्तथा ॥१५२॥ सर्वेऽर्थाः देशकालाश्च सामान्यं सकलं मतम् । सर्वभेदप्रभेदं सत् सकलाङ्गशरीरवत् ॥१५३।। तत्र भावाः समाः केचिन्नापरे चरणादिवत् । [$ १६६. साम्प्रतं प्रस्तुतप्रस्तावार्थविस्तारमुपसंहृत्य दर्शयन्नाह-] 10 एकानेकमनेकान्तं विषमं च समं यथा ॥१५४॥ तथा प्रमाणतः सिद्धमन्यथाऽपरिणामतः । [१६७. ततो व्यवस्थितं व्यवसायात्मकं विशदं द्रव्यपर्यायसामान्यविशेषात्मार्थवेदनं प्रत्यक्षमिति । किमनेन तल्लक्षणेन प्रत्यक्षं कल्पनापोढमभ्रान्तमित्येवास्तु निर्दोषत्वात् १ इति चेदुच्यते-] अविकल्पकमभ्रान्तं प्रत्यक्षं न पटीयसाम् ॥१५५।। 15 अविसंवादनियमादक्षगोचरचेतसाम् । [१६८. तन्न विकल्पजननात् प्रत्यक्षप्रामाण्यं विकल्पस्यैव मुख्यतस्तदुपनिपातात् । विकल्पानामयथार्थत्वान्नेति चेदत्राह-] सर्वथा वितथार्थत्वं सर्वेषामभिलापिनाम् ॥१५६॥ ततस्तत्त्वव्यवस्थानं प्रत्यक्षस्येति साहसम् ! । 20 १६९. इदानीं मानसमपि तत्प्रत्यक्षं प्रतिषई कारिकापादत्रयेण परप्रसिद्धं तत्स्वरूपमुपदर्शयति अक्षज्ञानानुजं स्पष्टं तदनन्तरगोचरम् ॥१५७॥ प्रत्यक्षं मानसं चाह; [ १७०. तदिदानीं निराकुर्वन्चाह-] भेदस्तत्र न लक्ष्यते । [६ १७१. शान्तभद्रस्त्वाह-यद्यपि प्रत्यक्षतस्तस्य तस्माद्भेदो न लक्ष्यते, कार्यतो लक्ष्यत एव । कार्य हि नीलादिविकल्परूपं स्मरणापरव्यपदेशं न कारणमन्तरेण कादाचित्कत्वात् । न चाक्षज्ञानमेव तस्य कारणं सन्तानभेदात् प्रसिद्धसन्तानान्तरज्ञानवत् । ततोऽन्यदेव अक्षज्ञानात् तत्कारणम्, तदेव च मानसं प्रत्यक्षमित्येतदेव दर्शयित्वा प्रत्याचिख्यासुराह-] 30 अन्तरेणेदमक्षानुभूतं चेन्न विकल्पयेत् ॥१५८॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy