________________
१. प्रत्यक्षप्रस्तावः
कारि० १४४-१५०]
अतद्धेतुफुलापोहमविकल्पोऽभिजल्पति । [६ १५६. साम्प्रतं तस्य वस्तुषु भावादीनां वस्तुसामान्यसाधनत्वेन विरुद्धत्वमावेदयन्नाह-]
समानाकारशून्येषु सर्वथाऽनुपलम्भतः ॥१४४॥ तस्य वस्तुषुभावादिसाकारस्यैव साधनम् । न विशेषा न सामान्यं तान् वा शत्तया कयाचन ॥१४५॥ 5
तद्विभर्ति स्वभावोऽयं समानपरिणामिनाम् । [ १५७. भिन्नमेव सामान्यं विशेषेभ्यः तदाधेयञ्च, खण्डादिषु गोत्वमिति प्रतिपत्तेः तत्कथं ते तन्न विभ्रति ? इदि चेदत्राह-]
___ अप्रसिद्धं पृथसिद्धम् उभयात्मकमञ्जसा ॥१४६॥ [६१५८. ततः सांवृतमेतत् , अस्थूलादिव्यावृत्त्या स्थूलादेः संवृत्या कल्पनादिति 10 चेदत्राह-]
सन्निवेशादिवद्वस्तु सांवृतं किन्न कल्प्यते ?। [ १५१. निरंशार्थप्रवादे हि वस्तुनः सर्वथा ग्रहात् । न कचिद्विभ्रमो नाम भवेदित्याह शास्त्रकृत्-] समग्रकरणादीनामन्यथा दर्शने सति ॥१४७॥
16 सर्वात्मनां निरंशत्वात् सर्वथा ग्रहणं भवेत् । [ १६०. भवतु तस्य [चन्द्रस्य] एकत्वादिनेव वर्तुलत्वादिनाप्यग्रहणमेवेति चेदत्राह-]
नौयानादिषु विभ्रान्तो न न पश्यति बाह्यतः ॥१४८॥ [६१६१. पश्यन्नपि असदेव पश्यतीति चेदाह-] न च नास्ति स आकारः ज्ञानाकारेऽनुषङ्गतः।
20 [$ १६२. तस्माद् दृश्येतरात्मत्वमनेकान्तावलम्बनम् , इदमेवाह-]
___ तस्माद् दृष्टस्य भावस्य न दृष्टः सकलो गुणः ॥१४९।।
[$ १६३. तदेवं रूपसंस्थानात्मकत्ववद् दृश्येतरात्मकत्ववच्च सामान्यविशेषात्मके वस्तुनि व्यवस्थिते सति यत् परस्यापद्यते, तदाह-]
प्रत्यक्षं कल्पनापोढं प्रत्यक्षादिनिराकृतम् । [ १६४. निगमयन्नाह-]
अध्यक्षलिङ्गतः सिद्धमनेकात्मकमस्तु सत् ॥१५०॥
सत्यालोकप्रतीतेऽर्थे सन्तः सन्तु विमत्सराः। [ १६५. साम्प्रतं सदृशपरिणामं सामान्यमनभ्युपगच्छतो वैशेषिकादेः तद्व्यवहार एव न संभवति तत्परिकल्पितस्य सामान्यस्यानुपपत्तेरिति दर्शयितुं प्रथमं तावत् परसामान्यं सत्त्वमेव 30
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org