________________
४८
न्यायविनिश्चये
[ कारि० १३५-१४३ समानाधारसामान्यविशेषणविशेष्यताम् । [ १४१. तदेवं वस्तुभूतादेव धर्मभेदात् व्यवहारोपपत्तौ यत्तदर्थं व्यावृत्तिभेदेन जातिभेदोपकल्पनं तस्यायुक्तत्वं तत्कल्पनाकृताञ्च अस्थानभीरुत्वं दर्शयन्नाह-]
अत्र दृष्टविपर्यस्तमयुक्तं परिकल्पितम् ॥१३॥
मिथ्याभयानकग्रस्तैः मृगैरिव तपोवने । [ १५०. मिथ्याभयानकत्वमेव तेषां दर्शयन्नाह-]
यस्यापि क्षणिकं ज्ञानं तस्यासन्नादिभेदतः ॥१३६॥ प्रतिभासभिदां धत्तेऽसकृत्सिद्धं स्वलक्षणम् ।।
विलक्षणार्थविज्ञाने स्थूलमेकं स्वलक्षणम् ॥१३७॥ ___10
तथा ज्ञानं तथाकारमनाकारनिरीक्षणे ।
अन्यथाऽर्थात्मनस्तत्त्वं मिथ्याकारैकलक्षणम् ॥१३८॥ [$ १५१. सदादिरूपस्यैव तत्र दर्शन न तद्विवेकस्येति चेदत्राह-]
विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् ।
विरुद्धधर्माध्यासः स्यात् व्यतिरेकेण चक्रकम् ॥१३९॥ 15 [६ १५२. तन्न जीवति स्थूलज्ञाने निर्भागज्ञानसंभवो यतः परमाणुसिद्धिः, तदसिद्धौ __ यदन्यत्प्राप्त तदप्याह-]
प्रतिक्षणं विशेषा न प्रत्यक्षाः. परमाणुवत् ।
अतदारम्भतया बुद्धराकारविवेकवत् ॥१४०॥ [$ १५३. एवञ्च यज्जातं परस्य तदर्शयन्नाह-]
अत्यन्ताभेदभेदौ न तद्वतो न परस्परम् । दृश्यादृश्यात्मनोर्बुद्धिनिर्भासक्षणभङ्गयोः ॥१४१॥ सर्वथाऽर्थक्रियाऽयोगात्, तथा सुप्तप्रबुद्धयोः।
अंशयोर्यदि तादात्म्यमभिज्ञानमनन्यवत् ॥१४२।। [ १५४. इदानीं तेन द्रव्यपर्यायादीनामन्योन्यात्मकत्वेन भावः इति परिणामलक्षणं 25 सङ्गृह्य दर्शयन्नाह-]
संयोगसमवायादिसम्बन्धाद्यदि वर्तते ।
अनेकत्रैकमेकत्रानेकं वा; परिणामिनः ॥१४॥ [ १५५. भवतु सामान्यं तत्तु विजातीयव्यावृत्तिरूपमेव · · · इति चेदत्राह-]
१ एतदनन्तरम् 'अत एवाह-' इति कृत्वा 'भेदानां बहुभेदानां तत्रैकत्रापि सम्भवात्' इति कारिकांशः पुनरप्यक्तः । परं विवरणकृताऽव्याख्यातत्वात् स विवरणकारेणव अनुस्मृत इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org