________________
कारि० १२७-१३४]
१. प्रत्यक्षप्रस्तावः स्यादसम्भवतादात्म्यपरिणामप्रतिष्ठितम् ।
समानार्थपरावृत्तमसमानसमन्वितम् ॥१२७॥ [ १४१. कुतः पुनस्तदित्थमित्याह-]
प्रत्यक्षं बहिरन्तश्च परोक्षं खप्रदेशतः। [ १४२. कथं पुनरेकमेव स्वलक्षणं तथा प्रत्यक्ष परोक्षश्चेति चेदत्राह-]
सुनिश्चितमनेकान्तमनिश्चितपरापरैः॥१२८॥ [१४३. स्यान्मतम्-उपादानोपादेयलक्षणसन्तानादन्यत् क्रमाऽनेकान्तं परमाणुसमुदायादवययव्यादेश्चार्थान्तरमक्रमानेकान्तमपि दुर्विवेचनमेवेति; तत्राह-]
सन्तानसमुदायादिशब्दमात्रविशेषतः। [ १४४. उपादानमपि न प्रत्यभिज्ञानादन्यतः शक्यसमर्थनम् ततः तत्समर्थना-10 दपि अनेकान्तमेव सुनिश्चितमित्यावेदयन्नाह-]
प्रत्यभिज्ञाविशेषात्तदुपादानं प्रकल्पयेत् ॥१२९।। अन्योन्यात्मपरावृत्तभेदाभेदावधारणात् ।
मिथ्याप्रत्यवमर्शेभ्यो विशिष्टात् परमार्थतः ॥१३०॥ [s १४५. तदिति स्मरणमिदमिति प्रत्यक्षम् , न ताभ्यां भिन्नमन्यत् प्रत्यभिज्ञानं यत-15 स्तयोरवधारणमिति चेदत्राह-]
तथाप्रतीतिमुल्लंघ्य यथास्वं स्वयमस्थितेः।
नानैकान्तग्रहग्रस्ता नान्योन्यमतिशेरते ॥१३१॥ [ १४६. भवतु तत्र सुनिश्चितमनेकान्तं यत्र पूर्ववदुत्तरस्यापि दर्शनं प्रत्यभिज्ञानस्य तन्निश्चयहेतोस्तत्र संभवात् । यत्र तु पूर्वस्यैव दर्शनं न परस्य तत्र कथं संभवात् (वः) नाप्र- 20 तिपन्नस्य पूर्वाभेदेन अन्यथा वा प्रत्यभिज्ञानं संभवतीति चेदत्राह-] .
शब्दादेरुपलब्धस्य विरुद्धपरिणामिनः।
पश्चादनुपलम्भेऽपि युक्तोपादानवद्गतिः ॥१३२॥ [ १४७. युक्तमुपादानस्योपलब्धाच्छब्दादेरनुमानम् तस्य निरुपादानस्यायोगात् । नोपादेयस्य; कारणस्य कार्यवत्त्वनियमाभावादिति चेदत्राह-]
25 तस्याऽदृष्टमुपादानमदृष्टस्य न तत्पुनः ।
अवश्यं सहकारीति विपर्यस्तमकारणम् ॥१३३॥ [$ १४८. निगमयन्नाह-]
तदेवं सकलाकारं तत्स्वभावैरपोद्धृतैः। निर्विकल्पं विकल्पेन नीतं तत्त्वानुसारिणा ॥१३४॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org