________________
10
कारि० १८७-१९३]
२. अनुमानप्रस्तावः तद्व्याप्तिव्यतिरेकाभ्यां मतं सामान्यदूषणम् ॥१८७॥ [$२०६. कुत पुनः समानपरिणामे न सामान्यदूषणम् ? इति चेदत्राह-]
समानपरिणामे न तदेकस्यानुपायतः। [$२०७. तन्न सामान्यं नाम किश्चित् । तद्भा ( तदभा) वे कुतस्तत्प्रयोजनं समानप्रत्ययादिकमिति चेन्न; समानपरिणामादेव तद्भावात्तदाह-]
सहशात्मनि सम्बन्धग्रहे भूयस्तथाविधे ॥१८८॥
प्रत्यभिज्ञादिना सिद्धयेत् प्रायो लोकव्यवस्थितिः। [ २०८. अपि च सदृशेतरवदेकानेकरूपयोरपि विरोधाविशेषात् कथमेकत्र अनेकोपाधिसंभवो यतस्तैस्तद्वान् व्यपदिश्येत ? अर्थान्तरभूतैरेव स तैस्तद्वयपदिश्यत इति चेदत्राह-]
तत्त्वतोऽनुपकारेऽपि भेदे कथमुपाधयः ? ॥१८९॥ [$ २०६. अभेद एवेति चेदत्राह-]
तत्रैकत्वप्रसङ्गाचेदभेदे कथमुपाधयः ?। [६२१०. कथं पुनर्भेदाभेदाभ्यामुपाघितद्भावनिराकरणम् जैनस्य, खयमपि तदभ्युपगमात्, इति चेदत्राह-]
नोपाधयो न तद्वन्तो भिन्नाऽभिन्ना अपि स्वयम् ॥१९०॥ 15
जात्यन्तरे तथाभूते सर्वथा दर्शनादपि । [६२ ११. परस्य तु मतम्-च (न) शब्दाल्लिङ्गाद्वा उपाधिमतः प्रतिपत्तिर्यतस्तस्य निरवशेषोपाधिशबलितस्य एकस्मादेव शब्दादेरवगमात् तदन्तरस्य तत्र वैफल्यं स्यात् , अपि तु उपाधीनामेव, तत्र च एकल्पतम ( एकतम ) विषयेण अन्येषामनवगमान्न तदन्तरवैयर्थ्य मिति । तत्राह-]
तद्वत्यचोदिते शक्तेऽशक्ताः किं तदुपाधयः ? ॥१९॥
चोद्यन्ते शब्दलिङ्गाभ्यां समं तैस्तस्य लक्षणे। [२१२. भवतु विशेषेष्वेव तस्य तत्; इति चेन्न; तेषामानन्त्येन अर्वाग्दृशां तत्र (तद) संभवात् इत्यभाव एवानुमानस्य । इदमेवाह-] - सम्बन्धो यत्र तत्सिद्धेरन्यतोऽप्रतिपत्तितः ॥१९२॥
अनुमानमलं किं तदेव देशादिभेदवत् ? । [$ २१३. साम्प्रतमुक्तन्यायेन सौगतमपि प्रतिक्षिपन्नाह-]
एतेन भेदिनां भेदसंवृत्तेः प्रतिपत्तितः ॥१९॥ तत्रैकं कल्पयन् वार्यः समाना इति तद्ग्रहात् ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org