________________
न्यायविनिश्चये
[ कारि० ६०-६५ तत्र मणिप्राप्त्या परितोषदर्शनात् , न प्रदीपप्रभामणिज्ञानं विपर्ययात् । तद्वदनापीति चेना ; तत्रापि विभ्रमे तदनुपपत्तेः..."तदेवाह-]
परितुष्यति नामैकः प्रभयोः परिधावतोः ॥१०॥
मणिभ्रान्तेरपि भ्रान्तो मणिरत्र दुरन्वयः॥ 5 [१६९. तदनेन साध्यसमत्वं दृष्टान्तस्य दर्शितम् । परो दृष्टान्तसमर्थनमाह-]
सति भ्रान्तेरदोषश्चेत्, [ ७०. तत्रोत्तरमाह-]
तत्कुतो यदि वस्तु न ? ॥६॥ कामं सति तदाकारे तद्धान्तं साधु गम्यते । 10' [६७१. तन्न सांवृतं तत्त्वमित्युपपन्नम् । भवतु वास्तवमेवेति चेन्न; तस्य मिथ्याज्ञानादसिद्धेः, सर्वेषामपि तत एवाभिमतसिद्धिप्रसङ्गात् । तदाह-]
अयमेवं नवेत्येवमविचारितगोचराः ॥१२॥ जायेरन् संविदात्मानः सर्वेषामविशेषतः।
तावता यदि किश्चित् स्यात् सर्वेऽमी तत्त्वदर्शिनः ॥१३॥ 16 [ ७२. शून्य-निर्विकल्पवादिनोः विचारस्यैवासंभवात् । सतोऽपि तस्य खांशमात्रपर्यवसानात् तदाह-]
पर्वतादिविभागेषु खांशमात्रावलम्बिभिः।
विकल्पैरुत्तरैर्वेत्ति तत्त्वमित्यतियुक्तिमत् ॥६४॥
[$ ७३. ततो विचारसाफल्यमभ्युपगच्छता तावद् वक्तव्यं बहिरर्थविषयत्वं विकल्पानाम् , 20 अन्यथा उपहासास्पदत्वेन तत्साफल्यानुपपत्तेः । प्रकारान्तरेणापि तेषां तद्विषयत्वं दर्शयन्नाह-]
सन्तानान्तरसद्भूतेश्चान्यथानुपपत्तितः। विकल्पोऽर्थक्रियाकारविषयत्वेन तत्परैः ॥६५॥
ज्ञायते, [७४. ननु यावदर्थान्तरस्यैव जलादेर्विकल्पवेद्यत्वमनुमानेन उच्यते, तावदनन्तरस्य 25 कस्मान्न कथ्यते ? तदनुमानस्यापि भावात् ; तथाहि-जलादिस्तद्विकल्पादनान्तरं तद्वद्यत्वात् तत्खरूपवत् इति चेन्न ; सन्तानान्तरेण व्यभिचारात् । इदमेवाह-]
न पुनश्चित्तमात्रेऽप्येष नयः समः। [६ ७५. ननु सन्तानान्तरस्य विकल्पो न तावत्प्रत्यक्षम् ; परचेतसां साक्षादप्रतिभासनात् । अनुमानमिति चेन्न; लिङ्गाभावात् । व्याहारादेस्तु न लिङ्गत्वं गाढमूर्छादौ तदभावेऽपि 30 भावात् । तद्विशेषस्य तत्त्वमित्यपि न युक्तम् ; असिद्धे साध्ये तस्यैव दुरवबोधत्वात् । सिद्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org