________________
10
कारि० ५२-५९ ]
१. प्रत्यक्षप्रस्तावः तत्र शौद्धोदनेरेव कथं प्रज्ञाऽपराधिनी ॥५२॥ बभूवेति वयं तावद् बहु विस्मयमास्महे ।
तत्राद्यापि जनाः सक्ताः तमसो नाऽपरं परम् ॥५३॥ [६६१. अपि च यद्यपरिज्ञानं तद्विप्लवस्य कथमवस्थानम् अविप्लववत् ? परिज्ञानश्च यद्यविप्लवं कथं तदेकान्तः ? सविप्लवं चेत्कथं ततस्तत्सिद्धिः विपर्ययवत् ? तदाह-]
विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्धयति । [$ ६२. तदसिद्धौ दूषणान्तरमप्याह-]
कथमेवार्थ आकाङ्क्षानिवृत्तेरपि कस्यचित् ॥५४॥
व्यवहारो भवेजातिमूकलोहितपीतवत् ? । [$ ६३. तदनेन प्रतीत्यपलापादनवधेयवचनत्वं तेषामुपदर्शयति-]
अनर्थानेकसन्तानानस्थिरानविसंविदः ॥५५॥
अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः। [६४. भवतु तत्त्वं संविदद्वैतमेवेति चेत् ; दत्तमत्रोत्तरम्-'अद्वयं द्वयनि सम्' इत्यादिना । तदेव विस्तरयन्नाह-]
स्वतस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः ? ॥५६॥
मिथस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः ? । [३६५. अतो विद्यत एव परस्यापि परतस्तत्प्रतिभासनमित्युपपन्न एव तदुपक्षेपः, तदेवाह-]
यतस्तत्त्वं पृथक् तत्र मतः कश्चिद् बुधः परः ॥५७॥
ततस्तत्त्वं गतं केन कुतस्तत्त्वमतत्त्वतः ? । [ ६६. यदि निरंशस्य स्वतः परतश्च न प्रतिभासनं तदपि माभूत् ; सर्वाभावस्यापि बौद्धैः सिद्धान्तीकरणादिति कश्चित् । निरंशेतरादिनित्येतरादिविकल्पनादिति परः । तत्राह-]
यथा सत्त्वं सतत्त्वं वा प्रमासत्त्वसतत्त्वतः ॥५८॥
तथाऽसत्त्वमतत्त्वं वा प्रमाऽसत्त्वसतत्त्वतः । [ ६७. यदि तेषु सत्त्वस [त] त्त्वे तदा कथमसत्त्वासतत्त्वे ? ते चेत् ; कथं सत्त्व- 25 सतत्त्वे इति ? तदेवाह -]
तदसत्वमतत्त्वं वा परसत्त्वसतत्त्वयोः ॥५९॥
न हि सत्त्वं सतत्त्वं वा तदसत्त्वासतत्त्वयोः । [ ६८. स्यान्मतम् -सांवृतमपि विज्ञानमसत्त्वादिविषयमेव तत्त्वसिद्धिनिबन्धनं न । सतत्त्वादिविषयमिति तन्मिथ्यात्वाविशेषात् । मिथ्याज्ञानमपि मणिप्रभामणिज्ञानमेव तन्निबन्धनम् , 30
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org