________________
३६
न्यायविनिश्चये
[कारि० ४६-५१ अभिन्नदेशकालानामन्येषामप्यगोचराः।
विप्लुताक्षमनस्कारविषयाः किं बहिः स्थिताः ? ॥४६॥ [९५३. ततो न बहिरर्थतया स्वप्नान्तिकस्य कामिन्यादेर्वा सत्त्वम् , बहिरवस्थितस्य नानाप्रतिपत्तृसाधारणत्वप्रसङ्गात् । नायं दोषः, तस्य अन्तर्देहवृत्तित्वात् इति चेत् ; इदमेवोल्लिंग्य 5 (ल्लिख्य) परिहारयन्नाह-]
अन्तःशरीरवृत्तश्चेददोषोऽयम् ; न; तादृशः।
तत्रैव ग्रहणात् किं वा रचिताऽयं शिलाप्लवः ॥४७॥ [६५४. तदिदमतिसुकुमारप्रज्ञगोचरमपि हेतुदोषम् अन्तरङ्गतमोबाहुलका [द] प्रतिपद्यमानैरेव परैः प्रकृतमनुमानमुपदर्शितमित्यावेदयन्नाह-] 10 विप्लुताक्षा यथा बुद्धिर्वितथप्रतिभासिनी।
तथा सर्वत्र किन्नेति जडाः सम्प्रतिपेदिरे ॥४८॥ [ 8 ५५. यत्पुनरेतत्-कामिन्यादिबुद्धिवत्तरङ्गचन्द्रादिवच्चेति निदर्शनम् ; तत्रापि वितथप्रतिभासित्वस्य च यतः प्रतिपत्तिः तस्य चेदवितथप्रतिभासत्वं कथन्न व्यभिचारः ? वितथप्रति
भासित्वे तु ततः कथं तत्सिद्धिर्विपर्ययवत् । अतो निदर्शनस्य साध्यवकल्या [त् ] मिथ्या [त्वमा] 15 वेदयन्नाह-]
प्रमाणमात्मसात्कुर्वन् प्रतीतिमतिलङ्घयेत्।
वितथज्ञानसन्तानविशेषेषु न केवलम् ।।४९।। [६५६. ग्राह्यादिसन्तानान्तरजीवान्तरभेदप्रतिभासस्तु विपरीतवासनाबलादविद्याबलाद्वा परिकल्पितः । तदेवाह-]
अद्वयं द्वयनिभीसं सदा चेदवभासते। [ ५७. तत्रोत्तरमाह-]
न स्वतो नापि परतो भेदपर्यनुयोगतः ॥५०॥ [९५८. तन्न अत्रापि विकल्पप्रतिसंहारवती वेला नाम काचिच्छक्यनिरूपणा, यतद ( यतस्तद ) द्वैतस्य स्वतःप्रकाशनमुपकल्प्येत । तदाह-] 25 प्रतिसंहारवेलायां न संवेदनमन्यथा।
[$५१. तन्न अद्वैतवादः श्रेयान् । विभ्रमवाद एवास्तु; इति चेन्न; तस्य 'विप्लुत' इत्यादिना प्रतिक्षेपात् । तदेव व्याचक्षाणास्तत्प्रतिक्षेपमेव दर्शयति-]
इन्द्रजालादिषु भ्रान्तिमीरयन्ति नचापरम् ॥५१॥
अपि चाण्डालगोपालबाललोलविलोचनाः। 2 [ ६०. बालादीनामपि तत्र विप्लवप्रतिपत्तिप्रसङ्गात्, न चैवम्, अविप्लवपरिज्ञानस्य तत्र तेषां भावादित्यसिद्धो हेतुः । अतश्च तद्वादिनां जडत्वमिति,"तदाह-]
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org