________________
१. प्रत्यक्षप्रस्तावः
३५
5
10
कारि० ४०-४५]
[६४४. भवतु नाम वर्तमानस्य तच्छक्तितो व्यक्तिः सति तत्र शक्तिसद्भावात् । अतीतादेस्तु कथम् असति तदभावादिति मन्यमानश्चोदति-]
व्यक्तिश्चेदसतः कथम् ? । [$ ४५. तदिदमपि दर्शनबलेन तत्रापि शक्तिमवस्थापयन् परिहरति-1
आरादपि यथा चक्षुरचिन्त्या भावशक्तयः ॥४०॥ [६४६ चोद्यमाविष्कुर्वन्नाह-]
विषमोऽयमुपन्यासः तयोश्चेत्सदसत्त्वतः। [ ४७. परिहरन्नाह--]
यदा यत्र यथा वस्तु तदा तत्र तथा नयेत् ॥४१॥
अतत्कालादिरप्यात्मा, [$ ४८. विपक्षे दोषमाह-]
न चेन्न व्यतिष्ठते। व्यवहारविलोपो वा, [६ ४६. नास्त्येव देशादिभेदः प्रवृत्त्यादिरूपो व्यवहारो वा कचित् , तदाश्रयस्य बहिर्भावस्यैवाऽभावात् । तत्प्रतिभासस्तु विपर्यासोपनीत एव । 'प्रतिभासः समस्तोऽपि वासना-15 बलनिर्मितः' इति वचनात् । तस्मादयमयथार्थमेव ( र्थ एव ) तदेवाह-]
मोहाच्चेदयथार्थता ॥४२॥ [ ५०. तत्रोत्तरमाह-]
अत्यन्तमसदात्मानं सन्तं पश्यन् स किं पुनः। प्रस्फुटं विपरीतं वा न्यूनाधिकतयापि वा ॥४३॥
प्रदेशादिव्यवायेऽपि प्रतीयन् प्रतिरुद्धयते ?। [५१. साम्प्रतं 'विपरीतं वा प्रति (ती) यन्' इत्येतत् स्मरणपर्यायेणैव (णेव) प्रत्यभिज्ञानादिना पयायेणापि दम (दर्श) यन्नाह-]
एतेन प्रत्यभिज्ञानाद्यतीतानुमितिर्गता ॥४४॥ प्रायशोऽन्यव्यवच्छेदे प्रत्यग्रानवबोधतः ।
अविज्ञाततथाभावस्याभ्युपायविरोधतः ॥४५॥ [५२. स्यान्मतम् यदुक्तमसन्नेव केशादिः तैमिरिकस्य प्रतिभासते तद्रान्तेराधिपत्येनेति; तदयुक्तम् ; असतः प्रतिभासेऽतिप्रसङ्गात् व्योमकुसुमादेरपि तदापत्तेः, ततो वस्तुसन्चेव तत्केशादिः स्वप्नविषयरचेति; तन्न; इच्छयैव तद्भावनालक्षणया परितः कामिन्यादेरुपलम्भात् , अतो न तस्य पारमाथिकं बहिरर्थत्वमेतदेवाह-]
30
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org