________________
10
न्यायविनिश्चये
[ कारि० ३४-३६ तैमिरिकज्ञानादावर्थ एव नास्ति तत्र कथम् इति सिद्धं तत्केशादेस्ताद्रूप्यादेव प्रतिवेदनम् , ततस्तत्र विपर्यस्यत्येव भवदुक्तो न्यायः । तदेवाह-]
अनाकारशङ्केषु त्रुटत्येष नयो यदि । [$ ३७. उत्तरमाह-]
सर्वं समानमात्मासंभाव्याकारडम्बरम् ॥३४॥
तद्धान्तेराधिपत्येन सान्तरप्रतिभासवत् । [३८. इदानीं 'प्रकाशनियमो हेतोः' इत्यादिकमेव व्याचिख्यासुरवसरप्राप्तमेव चोद्यमुत्थापयति-]
यथैवात्मायमाकारमभूतमवलम्बते ॥३॥
तथैवात्मानमात्मा चेदभूतमवलम्बते । [ ३९. तत्रोत्तरमाह-]
न स्वसंवेदनात्तुल्यं भ्रान्तेरन्यत्र चेन्मतम् ॥३६॥
[ ४०. तदेकयोगक्षेमत्वेन आत्माप्यनुपप्लव एव खपरपरिच्छेदखभावावपि तस्य, इति ___ कथन्न बाह्यग्रहणम् ! तदेवाह-]
सत्यं तमाहुराचार्या विद्यया विभ्रमैश्च यः।
यथार्थमयथार्थ वा प्रभुरेषोऽवलोकते ॥३७॥ [ ४१. ततो न ग्राह्यभेदान्नाप्याकारभेदात् संवित्तिभेदः शक्तिभेदादेव तदुपपत्तेः इत्युपपन्नमुक्तम्-'विषय' इत्यादि । ]
विषयज्ञानतज्ज्ञानविशेषोऽनेन वेदितः।
ग्राह्यभेदो न संवित्तिं भिनत्त्याकारभणयपि ॥३८॥ [$ ४२. ततो विषयसङ्कलिततज्ज्ञानस्मरणस्य अन्यथैव भावान्न ततो विषयाकारव्यवस्थापनं विज्ञानस्योपपन्नमिति चेदुच्यते-अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारेऽपि सा भवेत् तदिदमतिप्रसङ्गापादनं..."परस्याव्युत्पत्तिमापादयति न निराकार
ज्ञानवादिनः, शक्तिप्रतिनियमादेव तेन तत्परिहारस्य अभिधानात् । तदेवाह -] 25
अर्थज्ञानस्मृतावर्थस्मृती नातिप्रसज्यते । [ 8 ४३. कथं पुनर्नातिप्रसज्यते यावता निराकारज्ञानस्य साधारणतया सर्वविषयत्वं तत्स्मरणस्यैव च सर्वत्रैवानुभवविषये प्रवर्तनमापद्यत एवेति चेत् ; अत्र पूर्वोक्तमेव शक्तिनियममुत्तरीकुर्वन्नाह-]
सरूपमसरूपं वा यत्परिच्छेदशक्तिमत् ॥३९॥ 30
तयनक्ति ततो नान्यत्,
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org