________________
१. प्रत्यक्षप्रस्तावः
३३
कारि० २७-३३ ] अर्थस्य साधिका, संवेदनरूपता संवेदनस्येति तदाकारतैव सर्वस्य साधिका नान्यः स्वभावो भेदकोऽपि ज्ञानस्यार्थेन घटयतीत्यत्राह-]
एतेन वित्तिसत्तायाः साम्यात्सर्वैकवेदनम् ।
प्रलपन्तः प्रतिक्षिप्ताः प्रतिबिम्बोदये समम् ॥२७॥ [६३०. पुनरपि साकारवादं दूषयन्नाह-]
सारूप्येऽपि समन्वेति प्रायः सामान्यदूषणम् । [$३१.....इति नार्थः सारूप्येण यतः स एव तत्र तद्विशेषः स्यात् । कस्तर्हि तद्विशेष इति चेत्, अतदर्थपरावृत्तत्वमेव, तदेवाह-]
अतदर्थपरावृत्तमतद्रूपं तदर्थदृक् ॥२८॥ [६३२. तदयमर्थशक्तिनियमात् संवेदनस्याधिगमनियमः इत्येतदेवोत्तरार्थं विवृण्वन्नाह-] 10
अथेदमसरूपं किमतदर्थनिवृत्तितः। तदर्थवेदनं न स्यादसमानामपाहवत् ॥२९॥ अत्राक्षेपसमाधीनामभेदे नूनमाकुलम् ।
स्वचित्तमात्रगर्त्तावतारसोपानपोषणम् ॥३०॥ [$३३. स्यान्मतम्-'सारूप्येऽपि' इत्यादिना सारूप्यसामान्ययोः साधारणो दोषम 15 (षोऽन) न्वयः प्रतिपादितः । ततश्च कथं सारूप्यवत् सामान्यस्यापि वस्तुत्वम् ? माभूदिति चेन्न; तस्य 'सामान्यविशेषार्थात्मवेदनम्' इत्यनेन प्रत्यक्षविषयत्वनिवेदनात् । अवस्तुनः प्रत्यक्षविषयत्वानुपपत्तेरिति । तत्राह-]
सामान्यमन्यथासिद्धं न विज्ञानार्थयोस्तथा । अदृष्टेरर्थरूपस्य प्रमाणान्तरता गतेः ॥३१॥
20 [$ ३४. भवतु तर्हि प्राग्भाविन एव विषयत्वं तस्य हेतुत्वेन ज्ञाने प्रतिबन्धादिति चेन्न; ज्ञानकाले तस्याभावात् । न हि असतस्तत्काले तद्विषयत्वम् , एवं हि निर्विषयत्वमेव ज्ञानस्य स्यात् । साकारवादिनां तु नायं दोषः, खाकारज्ञानहेतुतयैव तस्य तद्विषयत्वोपपत्तेः...तत्राह-]
अतीतस्यानभिव्यक्ती कथमात्मसमर्पणम् ?।
असता ज्ञानहेतुत्वे व्यक्तिरव्यभिचारिणी ॥३२॥ [ ३५. यदि निराकारैव व्यक्तिः, कथं ततः प्रकाशननियमो 'नीलस्यैवायं प्रकाशो न पीतादेः' इत्येवंरूप इति चेदत्राह-]
प्रकाशनियमो हेतोर्बुद्धेर्न प्रतिबिम्बतः।।
अन्तरेणापि तादूप्यं ग्राह्यग्राहकयोः सतोः ॥३३॥ [३३६. भवतु नाम सत्यर्थ (र्थे ) हेतोरेव तत्प्रकाशननियमो न ताद्रूप्यात् । यत्र तु 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org