________________
३२
न्यायविनिश्चये
[कारि० १६-२६ [$ २२. तदयं परोक्षज्ञानेत्यादेः सङग्रहः, तदेव दूषणमन्यत्राप्यतिदिशन्नाह-]
एतेन येऽपि मन्येरन्नप्रत्यक्षं धियोऽपरम् ।
संवेदनं न तेभ्योऽपि प्रायशो दत्तमुत्तरम् ॥१९॥ [६२३. ततो नाऽनात्मवेदनस्य ज्ञानस्य विषयप्रतिनियमो विवक्षितवदन्यत्रापि तस्य 5 प्रवृत्तिसंभवात् । तदेवाह-]
विमुखज्ञा न संवेदो विरुद्धो व्यक्तिरन्यतः।
असञ्चारोऽनवस्थानमविशेष्यविशेषणम् ॥२०॥ [$२४. साम्प्रतं 'विमुख' इत्यादिकमेव व्याख्यातुकामो यौगज्ञानदूषणं सौगतज्ञानेऽपि योजयन्निदमाह-] 10
निराकारेतरस्यैतत् प्रतिभासभिदा यदि।
तत्राप्यनर्थसंवित्तौ अर्थज्ञानाविशेषतः ॥२१॥ [$ २५. इदानीमनवस्थानमेव संविद्विषयं पूर्वोक्तं व्यक्ति (क्ती) कुर्वन्नाह -]
ज्ञानज्ञानमपि ज्ञानमपेक्षितपरस्तथा ।
ज्ञानज्ञानलताऽशेषनभस्तलविसर्पिणी ॥२२॥ 15.
प्रसज्येत, अन्यथा तद्वत्प्रथमं किन्न मृग्यते ? । गत्वा सुदरमप्येवमसिद्धावन्यचेतसः ॥२३॥ असिद्धिरितरेषाञ्च तदर्थस्याप्यसिद्वितः।
असिद्धो व्यवहारोऽयमतः किं कथयाऽनया ? ॥२४॥ [ 8 २६. तदेवमवस्थापिते अर्थज्ञानस्यात्मवेदने सांख्यः प्राह-सत्यमर्थज्ञानं प्रत्यक्षमिति 20 नात्र विवादः, किन्तु तत् परार्थमचेतनञ्च तत इदमुच्यते - अर्थज्ञानमचेतनं विषयत्वात् __ घटादिवदिति; तत्रेदमाह-]
प्रत्यक्षोऽर्थपरिच्छेदो यद्यकिञ्चित्करेण किम् ? ।
अथ नायं परिच्छेदो यद्यकिञ्चित्करेण किम् ? ॥२५॥ [६२७. अर्थविषयत्वञ्च यदि प्रतिबिम्बमन्तरेण प्रथमप्रत्यक्षेऽपि व्यर्थ तत्कल्पनम् । 25 प्रतिबिम्बेनेति चेत् ; तदर्थकार्यत्वस्यापि न स्वतोऽवगमः । पूर्ववदन्यतः प्रत्यक्षादिति चेन्न; तस्याप्यर्थविषयत्व इत्याद्यनुबन्धादव्यवस्थितेः । एतदेवाह-]
प्रत्यक्ष करणस्यार्थप्रतिबिम्बमसंविदः। [$२८. न पुरुषस्यापि वस्तु तदुपरक्तं वा चित्तं संवेद्यं संभवतीति, तदेवाह-]
अप्रत्यक्षं स्वसंवेद्यमयुक्तमविकारिणः ॥२६॥ 30 [२९. यथैव तर्हि स्वरूपं संवेदनरूपेण पश्यति तदाऽर्थमर्थरूपेण इत्यर्थरूपता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org