________________
कारि० ११-१८ ]
१. प्रत्यक्षप्रस्तावः [ १३. विचारज्ञानं स्वपरप्रकाशमुररीकर्त्तव्यम्, अन्यथा स्वगतपरोक्षतायास्तेनाप्रतिपत्तेरुक्तदोषापरिहारादेतदेव दर्शयितुमाह-]
परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् ॥११॥ [$ १४. तन्न सिद्धस्य तस्य [ अर्थप्रकाशस्य ] अन्यथानुपपत्तिपरिज्ञानम् , नाप्यसिद्धस्यैव; नह्यप्रतिपन्ने धूमे तस्य पावकापेक्षं स्वप (सुप) रिज्ञानमन्यथानुपपन्नत्वम्, तदेवाह-] 5
अन्यथानुपपन्नत्वमसिद्धस्य न सिद्धयति । [$ १५. ततो मिथ्यैवेदं मतम्-'अव्यवसितैरपि व्यवसायैबाह्य व्यवसीयते' इति; तदाह
मिथ्याविकल्पकस्यैतद व्यक्तमात्मबिडम्बनम् ॥१२॥ [$१६. तदेवं प्रासङ्गिकं प्रतिपाद्य 'परोक्ष' इत्यादिकस्यैवार्थम् 'अध्यक्षम्' इत्यादिभिः 10 श्लोकैः सङ्ग्रहीतुकामः प्रथमं परप्रसिद्धेनैव अर्थज्ञानानुमानेन अर्थज्ञानस्य स्वसंवेदनविषयतां व्यवस्थापयन्नाह-]
अध्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् ।
नान्यथा विषयालोकव्यवहारविलोपतः ॥१३॥ [$ १७. पुनरप्युक्तस्यैवार्थस्य सोपपत्तिकं सङ्ग्रहमाह-]
आन्तरा भोगजन्मानो नार्थाः प्रत्यक्षलक्षणाः।
न धियो नान्यथेत्येते विकल्पा विनिपातिताः ॥१४॥ [$ १८. यत्पुनरेतत्-‘माभूत् सुखादीनां प्रत्यक्षत्वम्' इति; तत्राह-]
सुखदुःखादिसंवित्तेरवित्तिर्न हर्षादयः।
आनुमानिकभोगस्याप्यन्यभोगाविशेषतः ॥१५॥ 20 [$ १९. ततो न सुखादिबुद्धेरप्रत्यक्षत्वं न्याय्यम् । इतश्च [न ] तन्न्याय्यम् इत्याह-]
तावत्परत्र शब्दोऽयमनुमातुं कथं धियम् ।
यावदात्मनि तच्चेष्टासम्बन्धं न प्रपद्यते ? ॥१६॥ [$२०. तन्न आत्मनि बोधज्ञानमनुमानात्, लिङ्गाभावाच; तदाह-]
विषयेन्द्रियविज्ञानमनस्कारादिलक्षणः ।
अहेतुरात्मसंवित्तेरसिद्धय॑भिचारतः ॥१७॥ [$२१. 'मनस्कारादि' इत्यत्र आदिशब्देन अनुक्तपरिग्रहः । अनुक्तञ्च परिच्छिन्नो विषयः, तत्परिच्छेदो वा स्यात् , सोप्यात्मसंवित्ते: मीमांसकज्ञानस्य अहेतुरगमकः इत्याह-]
असिद्ध सिद्धेरप्यर्थः सिद्धश्चेदखिलं जगत्।। सिद्धे तत्किमतो ज्ञेयं सैव किन्नानुपाधिका ? ॥१८॥ 30
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org