SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ३० - 10 न्यायविनिश्चये . [कारि० ५-१० भावस्य निश्चयात् किं प्रमाणान्तरेण अपूर्वार्थाधिगमस्य तत्फलस्याभावात् , समारोपव्यवच्छेदस्य च निश्चिते समारोपाभावेनासंभवादित्यत्रेदमाह-] सदसज्ज्ञानसंवादविसंवादविवेकतः। सविकल्पाविनाभावी समक्षेतरसम्प्लवः ॥५॥ 5 [६६. नाध्यारोपव्यवच्छेदान्नापि वस्तुग्रहात्ततः, प्रामाण्यमनुमानस्य स्याद्वादन्यायविद्विषाम् । एतदेवाह- 'एकत्र' इत्यादिना ।] एकत्र निर्णयेऽनन्तकार्यकारणतेक्षणे । अतद्धेतुफलापोहे कुतस्तत्र विपर्ययः ? ॥६॥ [ 8 ७. तन्न अभिलापवत्त्वं विकल्पलक्षणमित्येतदेवाह-] अभिलापतदंशानामभिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥७॥ [६ ८. भवतु वा किमपि सामान्यं तथापि शब्दस्मरणवच्चक्षुरादिबुद्धीनामपि व्यवसायात्मव (क) त्वमनिवार्यमेव, तदाह-] पदार्थज्ञानभागानां पदसामान्यनामतः । 15 तथैव व्यवसायः स्याचक्षुरादिधियामपि ॥८॥ [ १. तन्न विचारबलात् प्रत्यक्षस्य क्षणविषयत्वावगमः, स्वत एवेति चेन्न; तथैवासम्प्रतिपत्तरेतदेवाह-] आत्मनाऽनेकरूपेण बहिरर्थस्य तादृशः। विचित्रं ग्रहणं व्यक्तं विशेषणविशेष्यभाक् ॥९॥ 20 [ १०. ननु तदिदं भवतां जात्यन्तरं यत्पुरोवर्तितया प्रतिभाति नीलादिस्थूलरूपं तस्य च दूरविरलकेशादिविवा (दिवद ) विद्यमानस्यैव प्रतिभासनात् कथं तद्रूपो बहिरर्थः पारमार्थिको यतस्तद्विषयत्वं प्रत्यक्षस्येति चेदत्राह-] अर्थज्ञानेऽसतोऽयुक्तः प्रतिभासोऽभिलापवत् । [११. न केवलमवयविन एव तस्य तद्विषयत्वमपि तद् (तु) द्रव्यस्यापि अक्रमवत् 25 क्रमेणापि परापरपर्यायाविष्वग्भावस्वभावस्य द्रव्यसंज्ञितस्य स्तम्भादेरविरोधादेतदेवाह-] परमार्थकतानत्वपरिणामाविघातिनः ॥१०॥ [६ १२. स्यान्मतम्-अवयवेभ्यो भिन्न एवावयवी, पर्यायेभ्यश्च द्रव्यमर्थान्तरमेव, बहिरी अवयवा एव वा, निरवयविनो द्रव्या एव वा, पर्यया बहिरर्थाः, ततस्तस्यैव प्रत्यक्षात् प्रतिभासो न क्रमाक्रमानेकस्वभावस्येति । तत्राह-] प्रतिज्ञातोऽन्यथाभावः प्रमाणैः प्रतिषिध्यते। 30. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy