________________
श्रीमद्भट्टाऽकलङ्कविचितः
॥ न्याय विनिश्च यः॥
१. प्रथमः प्रत्यक्षप्रस्तावः ।
[ १ अतः सर्वत्र तद्गुणस्तवनमेव मङ्गलम्, तत एव तत्प्रयोजनभावान्नापरम् । किं पुनस्तदित्याह-]
प्रसिद्धाशेषतत्त्वार्थप्रतिवुद्धकमूर्तये।
नमः श्रीवर्द्धमानाय भव्याम्बुरुहभानवे ॥१॥ [$ २. अथ यदि भगवतो भव्याम्बुरुहभानुत्वं तत्तर्हि वाङ्मयूखसापेक्षमेव नान्यथा । 5 न हि तत्सन्निधानादनुपदेशमेव भव्यानां तत्त्वज्ञानमिति सौगतवत्स्याद्वादिनामभिनिवेशोऽस्ति, ततस्तद्वाङ्मयादेव तत्त्वज्ञानसिद्धेः वाङ्मयमिदमपार्थकम् । नोकवाङ्मये (या) वसाध्ये तदंशमुपयोगवत् । तत्रापि तदपरापरवाङ्मयोपयोगपरिकल्पनायामनवस्थाप्रसङ्गादिति, तत्रेदमाह-]
बालानां हितकामिनामतिमहापापैः पुरोपार्जितैः, माहात्म्यात्तमसः वयं कलिबलात् प्रायो गुणद्वेषिभिः। 10 न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य नेनीयते,
सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः॥२॥ [ ३. सम्यग्ज्ञानात्मकत्वमेव प्रमाणस्य व्यवस्थापयन्नाह-]
प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा।
द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥३॥ [s ४. करिष्यते हि 'सदसज्ज्ञान' इत्यादिना इन्द्रियप्रत्यक्षस्य 'परोक्षज्ञान' इत्यादिना अनिन्द्रियप्रत्यक्षस्य 'लक्षणं समम्' इत्यादिना चातीन्द्रियप्रत्यक्षस्य समर्थनमतममि ( मत इ) न्द्रियप्रत्यक्षादिभेदेन त्रिविधमेव तदिति भवत्येव निर्णयः । तत्र-]
हिताहिताप्तिनिर्मुक्तिक्षममिन्द्रियनिर्मितम् ।
यद्देशतोऽर्थज्ञानं तदिन्द्रियाध्यक्षमुच्यते ॥४॥ [१५. कश्चिदाह-यदि साकारं निश्चयात्मकं प्रत्यक्षं तत एव निरवशेषोपाधिगर्भस्य
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org