________________
कारि० ७३-७६ ]
३. प्रवचनप्रवेशः
9
तदप्रतिबन्धात्; 'नहि बुद्धेरकारणं विषयः' इत्येव प्रतिव्यूढम् ; विज्ञानस्य अनागतनिर्णयात् । कृतिकोदयदर्शने शकटोदयो भविष्यति बुद्धिरविसंवादिनी, आदित्यः श्व उदेता, सूर्याचन्द्रमसोर्ग्रहणं भविष्यति, तन्तवः पटो भविष्यन्ति, मृत्पिण्डो घटो भविष्यति, तन्दुला भविष्यन्त्यौदनः, ब्रीहयस्तन्दुला भविष्यन्ति इत्याद्यनागतविषयाणामविसंवादिनामानन्त्यात् । ततः शब्दज्ञानमपि विवक्षाव्यतिरिक्तार्थग्राहि 5 सिद्धम् प्रतिबन्धमन्तरेणापि तत्प्रतिपादकस्वाभाव्यात् विज्ञानवत् । वर्त्तनालक्षणः कालः, क्रियाविष्टं द्रव्यं कारकम् स्त्यानप्रसवतदुभयाभाव सामान्यलक्षणं लिङ्गम्, कथञ्चिद्वस्तुस्वभावभेदकं तथाप्रतीतेः । पर्यायोऽप्यर्थभेदकृत् । क्रियाभेदात् एकोऽपि शब्दः क्रियानिमित्तकव्युत्पत्तिः तदभावात्तदर्थं नाचष्टे इति परमैश्वर्यमनुभवन्नेव इन्द्रः नान्यदा । ततः सिद्धः क्रियाभेदः पाचकपाठकादिवत् । नहि वर्णपदवाक्यानां व्युत्पादकं शास्त्रं वितथं परमार्थशब्दप्राप्त्युपायकृत् ज्ञातुरभिप्रायात्मकनयवत् । व्यावहारिकप्रकृत्यादिप्रक्रियाप्रविभागेन यथा पारमार्थिकादने कान्तात्मकादर्थादपोद्धृत्य तदंशमेकान्तं व्यावहारिकं तत्प्रतिपत्त्युपायं प्रकाशयन्नयो न मिथ्यात्वमनुभवेत्, निरपेक्षत्वस्यैव मिथ्यात्वात् । अनेकान्तनिराकृतेः निरपेक्षत्वम्, , तदनिराकृतेः सापेक्षत्वम्, नान्यथा नयानां सम्यक्त्वमिथ्यात्वे इति स्थितम् । 15 [$ ७२. अथेदानीं शास्त्रविधानाध्ययनपर्यवसितफलप्ररूपणपुरस्सरं निक्षेपखरूपं प्ररू
पयन्नाह - ]
श्रुतादर्थमनेकान्तमधिगम्याभिसन्धिभिः ।
परीक्ष्य तांस्तान् तद्धर्माननेकान् व्यावहारिकान् ॥७३॥ नयानुगतनिक्षेपैरुपायैर्भेदवेदने । विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान् ॥७४॥ अनुयुज्यानुयोगैश्च निर्देशादिभिंदां गतैः ।
द्रव्याणि जीवादीन्यात्मा विवृद्धार्भिनिवेशनः ॥७५॥ जीवस्थान गुणस्थानमार्गणास्थानतत्त्ववित् । तपोनिर्जीर्णकर्माऽयं विमुक्तः सुखमृच्छति ॥७६॥
Jain Education International
श्रुतमनादि सन्तानापेक्षया, साधनं प्रति सादि । प्रमाणं त्रिकालगोचरसर्वजीवादिपदार्थनिरूपणम् । तदर्थांशपरीक्षाप्रवणोऽभिसन्धिर्नयः । ताभ्यामधिगमः परमार्थव्यावहारिकार्थानाम् । तदधिगतानां वाच्यतामापन्नानां वाचकेषु भेदोपन्यासो न्यासः । सोऽवरतश्चतुर्धा नामस्थापनाद्रव्यभावतः । तत्र निमित्तान्तरान
२५
१- पायत्वात् न्यायकु० । २-प्रतिभागे - ज० । ३ तत्प्राप्त्युपा - न्यायकु० । ४ एतावत्पर्यन्तं न्यायकुमुदचन्द्रकृता तात्पर्यवृत्तिकृता च षष्ठपरिच्छेदरूपेण विभज्य परिच्छेदसमाप्तिः कृता । विवृतिप्रतौ तु नायं विभागः । - सम्पा० । ५ - भिदागतैः मु० लघी० । ६-भिनिवेशतः ज० । ७-रीक्षप्र ज० । ४
For Private & Personal Use Only
10
20
25
www.jainelibrary.org