SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ २६ लघीस्त्रये [ कारि० ७७-७८ पेक्षं संज्ञाकर्म नाम । तच जातिद्रव्यगुणक्रियालक्षणनिमित्तानपेक्षसंज्ञाकर्मणोऽनेकत्वादनेकधा । आहितनामकस्य द्रव्यस्य सदसद्भावात्मना व्यवस्थापना स्थापना । अनागतपरिणामविशेष प्रति गृहीताभिमुख्यं द्रव्यम् । तथोपयोगलक्षणो भावनि क्षेपः। अप्रस्तुतार्थाऽपाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् । निक्षिप्ताः 5 पदार्थाः निर्देशादिभिः सदादिभिश्चानुयोगैः अनुयो (यु) ज्यन्ते। अनुयुक्ताः प्रयुक्ताः सर्वे पदार्थाः; तथापि जीवपदार्थविषयविशेषप्ररूपकाणि जीवस्थानगुणस्थानमार्गणास्थानानि । एवं प्रमाणनयनिक्षेपानुयोगैः सर्वान् पदार्थानधिगम्य पुरुषतत्वं जीवस्थानगुणस्थानमार्गणास्थानः दृढतरमवबुद्ध्य प्रवृद्धाभिनिवेशात्मकसम्यग्दर्शन: तपसा निर्जीर्णकर्मा सर्वकर्मविनिर्मुक्तो बाधारहितमव्यवच्छिन्नमनन्तमतीन्द्रियं 10 सुखमृच्छत्यात्मा । नहि गुणादिविनाशात् जडः, गुणगुणिविनाशात् शून्यः, भोग्यविरहात् तदभोक्ता; तथाधिगमाभावात् तद्बाधासम्भवाच्च । शरीरादिकं धर्मि ज्ञानावरणादिस्वरूपं न भवति साध्यताऽस्य, तत्सत्यपि ज्ञानोदयसम्भवात् ॥७६॥ [६ ७३. इदानीं शास्त्रकारः शास्त्राध्ययनस्य प्रयोजनं प्ररूपयन्नाह-] भव्यः पञ्च गुरून् तपोभिरमलैराराध्य बुध्वागमम् , 15 तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशतः। दूरीभूततरात्मकादधिगतो बोद्धाऽकलङ्क पदम् , लोकालोककलावलोकनबलप्रज्ञो जिनः स्यात् स्वयम्॥७७॥ प्रवचनपदान्यभ्यस्यार्थीस्ततः परिनिष्ठितान सकृदवबुद्धेद्धाद्वोधादुधो हतसंशयः। 20 भगवदकलङ्कानां स्थानं सुखेन समाश्रितः, कथयतु शिवं पन्थानं वः पदस्य महात्मनाम् ॥७८।। लक्षणसङ्ख्याविषयफलोपेतप्रमाणनयनिक्षेपस्वरूपप्ररूपके हि हेतुवादरूपे आगमे गुरूपदेशपरम्परायथावदधिगते परमप्रकर्षण अभ्यस्ते सति आत्मनो जिनेश्वरपद प्राप्तिलक्षणस्वार्थसम्पतिर्भवति । तत्सम्पत्तौ च मुमुक्षुजनमोक्षमार्गोपदेशद्वारेण 25 परार्थसम्पत्तयेऽसौ चेष्टते ॥७॥ इति भट्टाकलङ्कशशाङ्कानुस्मृतप्रवचनप्रवेशः समाप्तः ॥छ।। -08880नमोऽकलडकाय कतीर्थनाशिने स्याद्वादमार्गप्रतिबोधहेतवे । मिथ्यान्धकारप्रतिभेदभानवे सम्यक्त्वसदनविकाशमतये ॥छ।। [समाप्तमिदं प्रकरणम् । ] १-क्षं कर्म ज०। २ 'जडः' नास्ति ज०। ३ अयं विवतिभागो न व्याख्यातो न्यायकुमदचन्द्रकता । सम्पा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy