________________
२४
लघीयनये
[ कारि० ६९-७२ सदभेदात्समस्तैक्यसंग्रहात् संग्रह। नयः।
दुर्नयो ब्रह्मवादः स्यात् तत्स्वरूपानवाप्तितः ॥६९॥ सर्वमेकं सदविशेषात् इति संग्रहो नयः । तदाभासो ब्रह्मवादः तदभ्युपगमोपायाभावात् , नापि तस्योपेयत्वं खरविषाणवत् ॥६६॥ 5 [६६६. व्यवहारनयं दर्शयन्नाह-]
व्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता ।
नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः ॥७॥ प्रमाणानां प्रामाण्यं व्यवहाराविसंवादात् इत्याकुमारं प्रसिद्धम् । अन्यथा संशयविपर्यासस्वमज्ञानादीनामपि प्रामाण्यमनिवार्य स्यात् । प्रत्यक्षं सविकल्पं प्रमाण 10 व्यवहाराविसंवादात् । 'उत्पादविगमध्रौव्यलक्षणं सत्, गुणपर्ययवद्रव्यम् , जीवश्चै
तन्यस्वभावः' इत्यादिश्रुतज्ञानेन पूर्वापराविरोधलक्षणसंवादसम्भवात् प्रामाण्यम् , अर्थाभिधानप्रत्ययात्मकव्यवहारानुकूल्याच । बहिरर्थविज्ञप्तिमात्रशून्यवचसां व्यवहारविरोधित्वात् दुर्ण (र्न) यत्वम् ॥७०॥ [७०. ऋजुसूत्रनयं दर्शयन्नाह-] __ भेदं प्राधान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः।
सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिकः ॥७१॥ बहिरणवः सञ्चिताः स्थूलमेकाकारप्रत्ययमभूतं दर्शयन्ति यथा तद्वत् संवित्परमाणवोऽपि चित्राकारमेकम् । ततो नैकमनेकरूपं तत्त्वमक्रमं यत् सक्रमं साध
येत् भेदस्य अभेदविरोधात् , अन्यथा क्वचिन्नानात्वमेव न स्यात् । सापेक्षा नयः, 20 निरपेक्षो दुर्नयः। प्रतिभासभेदात् स्वभावभेदं व्यवस्थापयन् तदभेदादभेदं प्रतिपद्यत एव विशेषाभावात्, तदन्यतरापायेऽर्थस्यानुपपत्तेः ।।७।। [६७१. अथ सप्तनयेषु मध्ये केऽर्थप्रधानाः के च शब्दप्रधानाः ? इत्याह-]
चत्वारोऽर्थनया ह्येते जीवाद्यर्थव्यपाश्रयात् ।
त्रयः शब्दनयाः सत्यपदविद्यां समाश्रिताः ॥७२॥ कालकारकलिङ्गभेदात् शब्दः अर्थभेदकृत् , अभूत् भवति भविष्यति, करोति क्रियते, देवदत्चो देवदत्तेति । पर्यायभेदादभिरूढोऽर्थभेदकृत् , इन्द्रः शक्रः पुरन्दर इति । क्रियाश्रयः एवम्भूतः, कुर्वत एव कारकत्वम् । यदा न करोति तदा कर्तृत्वस्याऽयोगादिति । कथं पुनः शब्दज्ञानं विवक्षाव्यतिरिक्तमर्थ प्रत्येति ? कथश्च न ?
१ तस्यौपे-ज० । २-मात्रे शून्यवचसा ज० । ३-विन्यासमाश्रिताः ज०।
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org