________________
.
कारि० ६८ ]
३. प्रवचनप्रवेशः तिकार्थवाहित्वात् । मनोमतेरपि स्मृतिप्रत्यभिज्ञानचिन्ताऽभिनिबोधात्मिकायाः कारणमतिपरिच्छिन्नार्थविषयत्वात् । तत्र मूलनयौ द्रव्य-पर्यायार्थिको । द्रव्यमेकान्वयात्मकम् । एकत्वं तदतत्परिणामित्वात् , सदृशपरिणामलक्षणसामान्यात्मकत्वादन्वयि । पुरुषत्वादेः अपेक्षातः सत्यपि समानेतरपरिणामातिशये नानैकसन्तानात्मनां तथाभावसङ्करव्यतिकरव्यतिरेकादन्वयिनोरस्खलत्समानैकप्रत्ययवि- 5 षयत्वमनुमिमीमहे । तथाहि-स्कन्धः स्वगुणपर्यायाणामेकत्वं न समानपरिणामः। पुरुषश्च समानपरिणामोऽपि सकलपदार्थगोऽनेकत्वम् । निश्चयनयादेको जीवः कर्मनिर्मुक्तः, व्यवहारनयात् सकर्मकः । पर्यायः पृथक्त्वं व्यतिरेकश्च । पृथक्त्वम् एकत्र द्रव्ये गुणकर्मसामान्यविशेषाणाम् । व्यतिरेकः सन्तानान्तरगतो विसदृशपरिणामः । व्यवहारपर्यायाः क्रोधादयः जीवस्य संसारिणः, निश्चयपर्यायाः शुद्धस्य 10 ज्ञानादयः प्रतिक्षणमात्मसात्कृताऽनन्तभेदाः । निश्चयनयात् पुद्गलद्रव्यमेकम् पृथिव्यादिभेदेऽपि रूपरसगन्धस्पर्शवत्वमाविर्भूताऽनाविर्भूतस्वरूपमजहत् स्कन्धपरमाणुपयर्यायभेदेऽपि रूपादिमत्त्वमपरिजहत् । नहि अवस्थादेशकालसंस्काराः मूर्तत्वमत्यन्तं भिन्दन्ति अमूर्तभेदप्रसङ्गात् । सत्ताभेदाश्च जीवादयः सचामित्युक्तप्रायं नेहोच्यते । भेदवादिनोऽपि ज्ञानमेकम् एकस्मिन् क्षणे स्वयमनेकाकारमात्मसात्कु- 15 र्वत् कथन्निराकुर्युः १ ततः तीर्थकरवचनसङ्ग्रह विशेषप्रस्तावमूलव्याकारिणौ द्रव्यपर्यायार्थिको निश्चेतव्यौ । नहि तृतीयं प्रकारान्तरमस्ति, तस्य प्रमाण एवाऽन्तर्भावात् । न नैगमस्य प्रमाणता तादात्म्यविवक्षाऽभावात् ॥६७॥ [६६७. एतदपि कुत इत्यत्राह-] गुणप्रधानभावेन धर्मयोरेकधर्मिणि।
20 विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदाकृतिः ॥१८॥ ‘जीवः सन्नमूः की सूक्ष्मो ज्ञाता दृष्टाऽसङ्ख्यातप्रदेशो भोक्ता परिणामी नित्यः पृथिव्यादिभूतविलक्षणः' इति जीवस्वतत्त्वनिरूपणायां गुणीभूता सुखादयः। सुखादिस्वरूपनिरूपणायां वा आत्मा । तदत्यन्तभेदाभिसन्धि गमाभासः। गुणगुणिनाम् अवयव्यवयवानां क्रियाकारकाणां जातितद्वताश्चेत्यादितादात्म्यम- 25 विवक्षित्वा गुणगुणिनोः धर्मिधर्मयोर्वा गुणप्रधानभावेन विवक्षा नैगमे, सङ्ग्रहादावेकविवक्षेति भेदः ॥६॥
[६६८. तत्र संग्रहस्वरूपं सप्रतिपक्षं दर्शयन्नाह-]
१-मतिभिन्नार्थवि-ई०।२-मेकत्वान्वया-न्यायकु०।३-यस्ते च प्र-न्यायकू०।४ मर्ति-ज०। ५-णाम ज०। ६-भूतावि-ज०। ७ निगमे ज० ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only