________________
10
लघीयत्रये
[कारि० ६३-६७ अप्रयुक्तोऽपि सर्वत्र स्यात्कारोऽर्थात् प्रतीयते ।
विधौ निषेधेप्यन्यत्र कुशलश्चेत् प्रयोजकः ॥१३॥ क्वचित् स्यात्कारमनिच्छद्भिः सर्वथैकान्तोऽभ्युपगतः स्यात् , अवधारणाभावेऽपि अनेकान्तनिराकरणस्य अवश्यम्भावित्वात् , अन्यथा प्रमाणनययोरभेदप्रसङ्गः। 5 किं बहुना विधिनिषेधानुवादाऽतिदेशवाक्येषु, कारकेषु कादिषु, स्वार्थादिषु,
प्रातिपदिकार्थेषु, साधनदूषणतदाभासवाक्येषु स्याद्वादमन्तरेण प्रस्तुताऽप्रसिद्धिः इत्याबालप्रसिद्धम् ॥६३॥
[६६५. ननु शब्दः सर्वोऽपि विवक्षाप्रतिबद्धत्वात् तामेव गमयति नार्थम् , अतोऽयुक्तमुक्तं 'तत्र जीव इत्युक्ते' इत्याद्याशङ्कयाह-]
वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान् । वाञ्छितांश्च कचिन्नेति प्रसिद्धिरियमीदृशी ॥१४॥ स्वेच्छया तामतिक्रम्य वदतामेव युज्यते ।
वक्त्रभिप्रेतमात्रस्य सूचकं वचनं त्विति ॥६५॥
वर्णपदवाक्यानां वाचकत्वं यथास्वमागमात् प्रतिपत्तव्यम् । वक्त्रभिप्रायाद्भि15 नस्यार्थस्य वाचकाः शब्दाः सत्यानृतव्यवस्थान्यथानुपपत्तेः । अयञ्च प्रसङ्गोऽ
न्यत्र विस्तरेणोक्तः इति नेह प्रतन्यते । शब्दानामर्थव्यभिचारित्वे अभिप्रेतव्यभिचारित्वं कुतोऽपनीयते सुषुप्तादौ वाग्वृत्चेदर्शनात् , अनिच्छतामपि अपशब्दादिभाषणसद्भावात् , वाञ्छतामपि मन्दबुद्धीनां शास्रवक्तृत्वाभावात् । उभयत्र
व्यभिचारान्न कस्यचिद्वाचकाः शब्दा इत्यलौकिकप्रतिभानम् ; लोको हि अर्थस्या20 ऽऽप्त्यनाप्तिषु सत्यानृतव्यवस्थामातिष्ठेत शब्दस्य नाभिप्रायमात्रे, तंत्र शब्दव्यवहार
बाहुल्याभावात् । अँबाधितां तत्प्रतीतिमतिक्रम्य स्वेच्छया प्रमाणप्रमेयस्वरूपमातिष्ठमानानां युक्तमभिप्रेतमात्रसूचित्वं शब्दानाम् ॥६४, ६॥ [६६६. साम्प्रतं 'नयो ज्ञातुरभिप्रायः' इत्येतद्व्याख्यातुकाम आह-]
श्रुतभेदाः नयाः सप्त नैगमादिप्रभेदतः । 25
द्रव्यपयोयमूलास्ते द्रव्यमेकान्वयानुगम् ॥६६॥ निश्चयात्मकमन्योऽपि व्यतिरेकेपृथक्त्वगः।।
निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रितौ ॥१७॥ नहि मतिभेदा नयाः त्रिकालगोचरानेकद्रव्यपर्यायविषयत्वात् , मतेः साम्प्र
१-क्तेऽपि मु० लघी०। २-निराकाराभ्युपगमस्यावश्य-ई० । ३ न्विति मु० लघी० । ४ कुतोऽप्रतीयते ज०। ५-क्तृत्वभा-ज०। ६-र्थस्यानाप्ति-ज०। ७ तत्र शब्दव्यवहारस्थितिमतिक्रम्य स्वेच्छ-ई०। ८ अबाधितमतिक्रम्य ज०। ९-रेकाप-मु० लघी० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org