________________
२१
कारि० ६१-६२ ]
३. प्रवचनप्रवेशः मुख्य निर्णयात्मके ज्ञाने सकलव्यवहारनियामके कथमसंवेद्यमकिश्चित्करमनुपायमनुपेयं ब्रुवाणः स्वस्थः ॥६०॥ [६६२. अधुना तद्भेद दर्शयन्नाह-]
तत्प्रत्यक्ष परोक्षं च द्विधैवानान्यसंविदाम् ।
अन्तर्भावान्ने युज्यन्ते नियमाः परकल्पिताः ॥३१॥ इन्द्रियार्थज्ञानं स्पष्टं हिताहितप्राप्तिपरिहारसमर्थं प्रादेशिकं प्रत्यक्षम् , अवग्रहेहावायधारणात्मकम्। अनिन्द्रियप्रत्यक्षम् स्मृतिसंज्ञाचिन्ताऽभिनिबोधात्मकम् । अतीन्द्रियप्रत्यक्षं व्यवसायात्मकं स्फुटमवितथमतीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थविषयम् । तदस्ति सुनिश्चिताऽसम्भवद्भाधकप्रमाणत्वात् सुखादिवत्। श्रुतं परोक्षं सकलप्रमाणप्रमेयेयत्तावत्स्वरूपाभिधायि बाधारहितं प्रमाणम् । अत्र अर्थापत्त्यनु- 10 मानोपमानादीन्यन्तर्भवन्ति । परपरिकल्पितप्रमाणान्तर्भावनिराकरणमन्यत्रोक्तमिति नेहोच्यते ॥६१॥ [६३. श्रुतस्य भेदं दर्शयन्नाह-]
उपयोगी श्रुतस्य द्वौ स्याद्वादनयसंज्ञितौ । स्याद्वादः सकलादेशो नयो विकलसङ्कथा॥१२॥
15 अनेकान्तात्मकार्थकथनं स्याद्वादः, यथा जीवः पुद्गलः धर्मोऽधर्म आकाशं काल इति । तत्र जीवो ज्ञानदर्शनवीर्यसुखैरसाधारणैः अमूर्त्तत्वासङ्ख्यातप्रदेशत्वसूक्ष्मत्वैः साधारणासाधारणैः सवप्रमेयत्वाऽगुरुलघुत्वधर्मित्वगुणित्वादिभिः साधारणैः अनेकान्तः। तस्य जीवस्यादेशात् प्रमाणं स्याद्वादः। तथेतरे परिणामतो योज्याः। ज्ञो जीवः सुखदुःखादिवेदनात् इत्यादि विकलादेशो नयः । साकल्य- 20 मनन्तधर्मात्मकता। वैकल्यमेकान्तः धर्मान्तराविवक्षातः । तत्र 'जीवः' इत्युक्त जीवशब्दो योग्यतापेक्षाऽनादिसङ्केतः स्वभावभूताऽन्यापोहस्वार्थप्रतिपादनः न्यक्षेण प्रतिपक्षं निरस्य जीवमात्रमेव अभिदध्यात् । ततः स्यात्पदप्रयोगात् सर्वथैकान्तत्यागात् स्वरूपादिचतुष्टयविशेषणविशिष्टो जीवः अभिधीयते इति स्वेष्टेसिद्धिः। नयोपि तथैव सम्यगेकान्तः। 'स्याजीव एव' इत्युक्तेऽनेकान्तविषयः 25 स्याच्छब्दः । 'स्यादस्त्येव जीवः' इत्युक्ते एकान्तविषयः स्याच्छब्दः ॥६२॥
[६६४. ननु न सर्वत्र वाक्ये लौकिकाः स्यात्कारमेवकारञ्च प्रयुञ्जते अन्यथैव तत्प्रयोगदर्शनात् , अतो न युक्तमेतदित्यारेकापनोदार्थमाह-]
१- ज०। २-यार्थे ज्ञा-ज०। ३-यत्तास्व- न्यायकू०। ४-क्षोऽना-ई० । ५ स्वेष्टविसि-ज०।६-पते नैका- न्यायकु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org