________________
5
15
[ कारि० ५८- ६०
तम् ; तामसखगकुलानां तमसि सति रूपदर्शनमावरणविच्छेदात्, तदविच्छेदात् आलोके सत्यपि संशयादिज्ञानसम्भवात् । काचाद्युपहतेन्द्रियाणां शङ्खादौ पीताधाकारज्ञानोत्पत्तेः, मुमूर्षाणां यथासम्भवमर्थे सत्यपि विपरीतप्रतिपचिसद्भावात् नार्थादयः कारणं ज्ञानस्येति स्थितम् ||५७॥
25
२०
[$ ५९. अत्रैव दूषणान्तरमाह-]
नार्थः कारणं विज्ञानस्य कार्यकालमप्राप्य निवृत्तेः अतीततमवत् । न ज्ञानं तत्कार्यं तदभाव एव भावात् तद्भावे चाऽभावात् भविष्यशमवत् । नार्थसारूप्यभृ10 द्विज्ञानम् अमूर्त्तत्वात् । मूर्चा एव हि दर्पणादयः मूर्चमुखादिप्रतिबिम्बधारिणो दृष्टाः, नामूर्त्त मूर्च प्रतिबिम्बभृत्, अमूर्त्तं च ज्ञानं मूर्तिधर्माभावात् । नहि ज्ञानेऽर्थोऽस्ति तदात्मको वा येन तस्मिन् प्रतिभासमाने प्रतिभासेत शब्दवत् । ततः तदध्यवसायो न स्यात् । कथमेतदविद्यमानं त्रितयं ज्ञानप्रामाण्यं प्रत्युपकारकं स्यात् अलक्षणत्वेन १ ॥ ५८ ॥
[8 ६०. ननु ज्ञानस्य तदुत्पत्तित्रितयासम्भवे कथमर्थग्राहकत्वमतिप्रसङ्गादित्यारेकायामाह-स्वहेतुजनितोप्यर्थः परिच्छेद्यः खतो यथा ।
तथा ज्ञानं खहेतुत्थं परिच्छेदात्मकं स्वतः ॥५९॥
अर्थज्ञानयोः स्वकारणादात्मलाभमासादयतोरेव परिच्छेद्यपरिच्छेदकभावः नाऽलब्धात्मनोः कर्तृकर्मस्वभाववत् । ततस्तदुत्पत्तिमन्तरेणापि ग्राह्यग्राहकभाव20 सिद्धिः स्वभावतः स्यात्, अन्यथा व्यवस्थाभावप्रसङ्गात् ॥ ५६ ॥
लघीयस्त्रये
न तज्जन्म न ताद्रूप्यं न तद्व्यवसितिः सह । प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् ॥५८॥
[$ ६१. ननु सिद्धेपि स्वरूपतस्तद्भावे तत्फलं वक्तव्यम् । तच्च अधिगतिमात्रमित्येके, स्वरूपस्यैवाधिगतिरित्यन्ये, अर्थस्यैवेत्यपरे । इत्याशङ्क्याह-]
Jain Education International
व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम् । ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते ॥ ६० ॥
अनिर्णीतिफलस्यै नाधिगमोऽस्ति विचार्यमाणायोगात् | अविसंवादकत्वं च निर्णयायत्तं तदभावेऽभावात् तद्भावे च भावात् । व्यवसायफलं ज्ञानं मुख्यं प्रमाणमिति व्यवस्थितम् । स्वतोऽव्यवसायस्य विकल्पोत्पादनं प्रत्यनङ्गत्वात्, तदुत्पतिं प्रत्यङ्गत्वे अभिलापसंसर्गयोग्यता न प्रतिषेध्या, अन्यथा विकल्पोत्पत्त्यभावप्रसङ्गात् । सति
१ - कारिणो ई० । २ - र्तमूर्त-ज० । ३ - हेतुत्वं ज० । ४ - लब्धात्माकर्तृ - ई० । ५ मुख्यप्राज० । ६ - स्याधिगमो - ई० । ७-तोप्यव- ई० ।
For Private & Personal Use Only
www.jainelibrary.org