________________
5
10
१८
25
लघीयस्त्रये
३. तृतीयः प्रवचनप्रवेशः ।
--><
[१५२. अथ प्रमाणनयस्वरूपं निरूप्य इदानीं प्रमाणविशेषस्य आगमस्य स्वरूपं प्रथग् निरूपयितुमुपक्रमते, तत्रानेकथा विप्रतिपत्तिसद्भावात् । तदादौ च शास्त्रस्य मध्यमङ्गलभूतम् इष्टदेवताविशेषगुणस्तोत्रमाह - ]
[ कारि० ५१-५४
Jain Education International
प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकम् । प्रमाणयननिक्षेपानभिधास्ये यथागमम् ॥५१॥
[१५३. तत्र प्रमाणादीनां समासतो लक्षणं प्रतिपादयन्नाह - ] ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते । नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः ॥५२॥
ज्ञानं प्रमाणं कारणस्याप्यचेतनस्य प्रामाण्यमनुपपन्नम् असन्निकृष्टेन्द्रियार्थवत् । विषमोऽयमुपन्यासः, असन्निकृष्टस्य तदकारणत्वादिति ; नैतत्सारम् ; अर्थस्य तदकारणत्वात्, तस्य इन्द्रियानिन्द्रियनिमित्तत्वात्, अर्थस्य विषयत्वात् । नहि तत्परिच्छेद्योऽर्थः तत्कारणतामात्मसात्कुर्यात् प्रदीपस्येव घटादिः ॥ ५२ ॥
[$५४. किञ्च अर्थस्य ज्ञानं प्रति कारणत्वे सिद्धे अयं नियमः परिकल्प्येत, असिद्धे 15 वा ? न तावदसिद्धे अतिप्रसङ्गात् । अथ सिद्धे कुतः तत्सिद्धि: ? तत एव ज्ञानात्, अन्यतो वा ? न तावत्तत एव; यतः -]
अयमर्थ इति ज्ञानं विद्यान्नोत्पत्तिमर्थतः ।
अन्यथा न विवादः स्यात् कुलालादिघटादिवत् ॥५३॥
अर्थं परिच्छिन्दद् विज्ञानम् आत्मनः कारणान्तरमपरं सूचयत्येव । नहि ततः 20 स्वभावलाभं प्रति व्याप्रियमाणस्य तत्परिच्छित्तिः अनुत्पन्नत्वात् । उत्पन्नस्यापि न कारणे व्यापारः करणादिवत् । यदि कारणकार्य भावमात्मार्थयोर्विज्ञानं परिच्छिन्द्यात् न कश्चिद्विप्रतिपत्तुमर्हति कर्तृकरणकर्मसु ॥ ५३ ॥
[$ ५५. अन्वयव्यतिरेकौ अनुकरोति च ज्ञानमर्थस्येत्याशङ्क्याह-] अन्वयव्यतिरेकाभ्यामर्थश्चेत् कारणं विदः । संशयादिविदुत्पादः कौतस्कुत इतीक्ष्यताम् १ ||२४||
बुद्धेरेव व्यभिचारो नार्थस्य । कथमव्यभिचारिणोऽर्थस्य अन्वयव्यतिरेकावनुकुर्वती व्यभिचरेन्नाम ? ततः संशयादिज्ञानमहेतुकं स्यात् । तिमिराशुभ्रमणनौयानसङ्घोभादिहेतुत्वे कॅमर्थमर्थः पुष्णातीति मृग्यम् ? सत्यज्ञानेऽपि तिमिराद्य
१ उच्यते ज० । २ किमर्थ - ज० ।
For Private & Personal Use Only
www.jainelibrary.org