________________
कारि० ४६-५०]
२. नयप्रवेशः प्रतिक्षणं प्रत्यर्थ च नानासामग्रीसनिपातात् षट्रारकीसम्भवेऽपि यथैकं स्वलक्षणं स्वभावकार्यभेदानां तदभेदकत्वात् तथा कालादिभेदेऽपि । तत्प्रतिक्षेपो दुर्नयः, तदपेक्षो नयः। स्वार्थप्राधान्येऽपि तद्गुणत्वात्। तदुभयात्मार्थज्ञानं प्रमाणम् ।
[६५०. ननु नयः सर्वोऽपि मानसो विकल्पः। विकल्पश्च निर्विषय एव तत्त्वात् प्रधानादिविकल्पवत् , तत्कथं तेन कस्यचिदधिगमः स्यादित्याशङ्य 'विकल्पत्वात्' इत्यस्य 5 हेतोः तर्कादिना अनैकान्तिकत्वं दर्शयन्नाह-]
व्याप्तिं साध्येन हेतोः स्फुटयति न विना चिन्तयैकत्र दृष्टिः, साकल्येनैष तर्कोऽनधिगतविषयः तत्कृतार्थेकदेशे। प्रामाण्ये चानुमायाः स्मरणमधिगतार्थाविसंवादि सर्वम्, संज्ञानश्च प्रमाणं समधिगतिरतः सप्तधाख्यैर्नयोधैः ॥४९॥ [$५१. तैश्च तेषां समधिगतौ सत्यां यज्जातं तद्दर्शयति-]
सर्वज्ञाय निरस्तबाधकधिये स्याद्वादिने ते नमस्तात्प्रत्यक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकान्तभाक् । तत्त्वं शक्यपरीक्षणं सकलविन्नकान्तवादी ततः, प्रेक्षवानकलङ्कमेति शरणं त्वामेव वीरं जिनम् ॥५०॥ 15
नयप्रवेशे पञ्चमः परिच्छेदः ।
ईति प्रमाणनव (य) प्रवेशः समाप्तः ।
कृतिरियं सकलवादिचक्रचक्रवर्तिनो भगवता भट्टाकलङ्कदेवस्येति ।
- - [ मोहेनैव परोऽपि कर्मभिरिह प्रेत्याभिबन्धः पुनः, भोक्ता कर्मफलस्य जातुचिदिति प्रभ्रष्टदृष्टिर्जनः। कस्माच्चित्रतपोभिरुद्यतमनाश्चैत्यादिकं वन्दते, किं वा तत्र तपोऽस्ति केवलमिमे धूर्तेर्जडा वश्चिताः॥]
•
20
१ यर्थकस्व-ज० । २-थें ज्ञा-ज०। ३-वानु-ज० । ४-दिसं-मु० लघी०। ५-वानकलयाति मु० लघी०। ६ एवं प्रक्रान्तप्रत्यक्षादिपरिच्छेदपञ्चमः नयप्रवेशो द्वितीयपरिच्छेदः समाप्तः । न्यायकु० । ७ श्लोकोऽयं ई०, ज० प्रत्योः प्रमाणनयप्रवेशसमाप्त्यनन्तरमुपलभ्यते । परं न्यायकुमुदचन्द्र कृता प्रभाचन्द्रेण लघीयस्त्रयतात्पर्य वृत्तिकृता अभयचन्द्रेण च अव्याख्यातत्वात् , अर्थदष्ट था प्रकरणेन चासंगतत्वात् प्रक्षिप्त एवेति भाति ।-सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org