________________
5
लघीयस्त्रये
[ ५ नयपरि०
[$४७. ननु यद्यर्थाभावेऽपि तज्ज्ञानं स्यात्तर्हि सर्वमेव शाब्दज्ञानमप्रमाणं स्यात् प्रयोगः- विवादास्पदीभूतं शब्दार्थज्ञानमप्रमाणं तत्त्वात् प्रकृतज्ञानवदित्याशङ्क्याह--] अक्षशब्दार्थविज्ञानमविसंवादतः समम् ।
अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत् ॥४६॥
तदुत्पत्तिसारूप्यादिलक्षर्णव्यभिचारेऽपि आत्मना यदर्थपरिच्छेदलक्षणं ज्ञानं तत्तस्येति सम्बन्धात् । वागर्थज्ञानस्यापि स्वयमविसंवादात् प्रमाणत्वं समक्षवत् । विवक्षाव्यतिरेकेण वागर्थज्ञानं वस्तुतत्त्वं प्रत्याययति अनुमानवत्, सम्बन्धनियमाभावात्। वाच्यवाचकलक्षणस्यापि सम्बन्धस्य बहिरर्थप्रतिपत्तिहेतुतोपलब्धेः ॥४६॥
[४८. ननु कालादीनां ग्राहक प्रमाणाभावतोऽभावात् सतामप्यभेदात्, अन्यतः काल10 भेदात्तद्वेदे अनवस्था स्यात् । अर्थभेदात्तद्भेदे अन्योन्याश्रयः । ततोऽयुक्तमुक्तं 'कालकारक' इत्यादि ; इत्याशङ्क्याह- ]
20
१६
25
नहि एकान्ते वर्त्तनालक्षणं कालस्य सम्भवति । भूतभविष्यद्वर्त्तमानप्रभेदो यतः 15 स्यात्तदर्थक्रियानुपपत्तेः । न च द्रव्यं शक्तिः तदुभयं वेर्ति कारकलक्षणम् ; शक्तिशक्तिमतोर्व्यतिरेकैकान्ते सम्बन्धाऽसिद्धिः, अनवस्थानुषङ्गात् । तदव्यतिरेकैकान्ते 'शक्तिः शक्तिमत्' इति रिक्ता वाचोयुक्ति: । तन्न एकान्ते षट्कारकी व्यवतिष्ठत । कुतः पुनः स्त्यायत्यस्यां गर्भः इति स्त्री, प्रसूते स्वान् पर्यायान् इति पुमान्, तदुर्भयात्यये नपुंसकम् इति शब्दार्थप्रत्ययानाम् अन्यतमस्यापि लिङ्गव्यवस्था ? तथैकस्यार्थस्य इन्दनादिन्द्रः, , शकनात् शक्रः पुरं दारयतीति पुरन्दरः इति पर्यायभेदात् भिन्नार्थता तद्वाचिनां शब्दानां न सम्भवत्येव, व्यतिरेकेतरैकान्तयोः तत्र विरोधात् । तत एव क्रियाकारकयोस्तत्र असम्भवो विज्ञेयः । तदनेकान्तसिद्धिः विधिप्रतिषेधाभ्यां तदर्थाभिधानात् । नीभावैकान्तः कुतः, तदभिधानलिङ्गाद्यसम्भवोपालम्भः स्याद्वादमनुवर्त्तत १ ॥४७॥
[ १४९. यतश्चानेकान्तेन तदुपालम्भाभावः अतः - ]
कालादिलक्षणं न्यक्षेणान्यत्रेक्ष्यं परीक्षितम् । द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम् ॥४७॥
Jain Education International
एकस्यानेकसामग्रीसन्निपातात् प्रतिक्षणम् । षट्टारकी प्रकल्प्येत तथा कालादिभेदतः ॥४८॥
१ प्रक्षात् शब्दार्थ- ई० । २- लक्षणं व्य ई० । ३ तत्तथेति ज० ॥ ४ प्रत्यापयति ई० ।
५ - निश्चितम् ज० । ६ चेति ई० । ७ शक्तिश- ई० । ८- भयाभावे नपुं - ई० । ९न्तरयोः ज० । १० नचैकान्तः ज० । ११ प्रकल्पेत् ज० ।
For Private & Personal Use Only
www.jainelibrary.org