________________
कारि० ४४-४८] २. नयप्रवेशः
१५ यथा बहिः परमाणवः सनिविष्टाः स्थवीयांसमेवैकमाकारमभूतं दर्शयन्ति तथैव संवित्परमाणवोऽपि । तनैकमनेकरूपं तत्त्वमक्रमं यत् सक्रमं साधयेत् , भेदस्य अभेदविरोधात् , क्वचिनानात्वमेव अन्यथा न स्यात् । सापेक्षो नयः, निरपेक्षो दुर्नयः। प्रतिभासभेदात् स्वभावभेदं व्यवस्थापयन् तदभेदादभेदं प्रतिपत्तुमर्हत्येव विशेषाभावात् । तदन्यतरापायेऽर्थस्याऽनुपलब्धेः ॥४३॥ [$ ४५. अधुना शब्दसमभिरुढेत्थम्भूतान्नयान् कथयन्नाह-]
कालकारकलिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् ।
अभिरूढस्तु पर्यायरित्थम्भूतः क्रियाश्रयः॥४४॥ कालभेदात्तावदभूत् भवति भविष्यति इति , कारकभेदात् करोति क्रियते इत्यादि , लिङ्गभेदात देवदत्तो देवदत्ता इति, तथा पर्यायभेदात् इन्द्रः शक्रः पुरन्दर 10 इति, तथैतौ शब्दसमभिरूढौ । क्रियाश्रयः एवम्भूतः । कुर्वत एव कारकत्वम् , यदा न करोति तदा कर्तृत्वस्यायोगात् । तत्कथं पुनः शब्दज्ञानं विवक्षाव्यतिरिक्तं वस्तु प्रत्येति ? कथं च न ? तदप्रतिबन्धात् ; 'नहि बुद्धेरकारणं विषयः' इत्येतत् प्रतिव्यूढम् ; विज्ञानस्य अनागतविषयत्वनिर्णयेन ॥४४॥
[६४६. ननु शब्दाः सङ्केतितमेवार्थं प्राहुर्नान्यम् अतिग्रसङ्गात् । सङ्केतश्च नाविषयी- 15 कृतानां शब्दार्थानां युक्तो तन्निविषयताप्राप्तेः । तद्विषयीकरणञ्च नाध्यक्षेण; शब्दाध्यक्षस्य अभिधेये, तदध्यक्षस्य च अभिधानेऽप्रवृत्तः । नापि स्मृत्या; तस्या निर्विषयत्वादित्याशङ्कयाह-]
अक्षबुद्धिरतीतार्थ वेत्ति चेन्न कुतः स्मृतिः।
प्रतिभासभिदैकाऽर्थे दूरासन्नाक्षबुद्धिवत् ॥४५॥ क्षणिकाक्षज्ञानज्ञेययोः कार्यकारणत्वनियमे निर्विषयं प्रत्यक्षं तत्कारणस्य 20 अतीतस्य तदनात्मकत्वात् , प्रागभावप्रध्वंसाभावयोः समनन्तरेतरविनाशयोश्च अभावाऽविशेषात् । तदुत्पत्तिसारूप्ययोरसम्भवात् , व्यभिचाराच्च किं कस्य ज्ञानमित्युक्तम् । यदि पुनः अतीतमर्थं प्रत्यक्षं कथश्चिद्वेत्ति स्मृतिः कथन संविद्यात् ? साक्षादतदुत्परतादूप्याच्च इति वैयात्यम् ; व्यवहितोत्पत्तावपि तद्रूपानुकृतेर्दर्शनात् दृष्टार्थस्वमवत् । प्रत्यक्षस्मृत्योः प्रतिभासभेदान्नैकार्थत्वमनैकान्तिकम् ; दूरासन्न- 25 कार्थप्रत्यक्षयोः भिन्न प्रतिभासयोरपि तदेकार्थविषयत्वात् । दूराक्षार्थज्ञानं भ्रान्तेरप्रत्यक्षं प्रमाणान्तरं स्यात् । नहि ततोऽथ परिच्छिद्य प्रवृत्तौ विसंवादैकान्तः तदप्रमाणं यतः स्यात् । तदयं शब्दार्थों स्मृत्या सङ्कलय्य सङ्केते पुनः शब्दप्रतिपचौ तदर्थ प्रत्येति । स्मृतिप्रत्यभिज्ञानादेरपि परमार्थविषयत्वात् । तदर्थाभावेऽपि प्रत्यक्षवत् शब्दार्थज्ञानं वस्तुन्यपि सङ्केतसम्भवात् ॥४॥
१ विसंवाद्यते सवप्र- ज० । २ संकल्पय्य ई० । ३-प्रवृत्तौ ई० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org