________________
लघीयत्रये
[५ नयपरि० प्रामाण्यं व्यवहाराद्धि स न स्यात्तत्त्वतस्तयोः।
मिथ्यैकान्ते विशेषो वा कः स्वपक्षविपक्षयोः॥४१॥ शुद्धमशुद्धं वा द्रव्यं पयोयं व्यस्तं समस्तं वो व्यवस्थापयता तत्साधन प्रमाणं मृग्यम् , अन्यथाऽतिप्रसङ्गात् । तत्प्रामाण्यं च व्यवहारेणैव, स च सङ्ग्रहे । भेदाश्रयो मिथ्यैव । ततः सप्र (सःप्र) तिपक्षं कथमतिशयीत सत्येतरस्वरूपवत् ? मिथ्यैकान्ताविशेषेऽपि तव्यवस्थापनमयुक्तम् । तदुभयोपलब्धेरवितथात्मकत्वात् , अन्यथा स्वमान्तरवत् तद्विसंवादान्न किञ्चित्प्रमाणम् । नैगमेऽपि चलं गुणप्रवृत्तं नित्यं चैतन्यमिति व्यवहाराऽसिद्धेः स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । नहि
$ ४) “गुणानां परमं रूपं न दृष्टिपथमृच्छति ।। 10
यत्तु दृष्टिपथप्राप्तं तन्मायै(ये)व सुतुच्छकम् ॥” इति प्रमाणमस्ति । समवायेन स्वावयवेषु अवयवी वर्तेत शृङ्गे गौः शाखायां वृक्षः इति लोकव्यवहारमतिवर्तेत विपर्ययात् । स्वयमज्ञस्वभावात्मा ज्ञानसमवाये कथमिव ज्ञः स्यात् ? नहि तथाऽपरिणतस्य तत्त्वम् , समवायस्यापि ज्ञत्वप्रसङ्गात् ।
नवै ज्ञानसमवायोऽस्ति समवायस्येति चेत् । कथं स्वस्वभावरहितः सोऽस्ति, वर्तेत 15 वा समवायान्तराभावात् । तदनवस्थानुषङ्गात् ॥४१॥
[$ ४३. इदानी व्यवहारनयं दर्शयितुमाह-]
व्यवहाराविसवादी नयः स्याद् दुर्नयोऽन्यथा ।
बहिरर्थोऽस्ति विज्ञप्तिमा शून्यमितीदृशः ॥४२॥
प्रत्यक्षस्याऽपि प्रामाण्यं व्यवहारापेक्षम् । स पुनः अर्थाभिधानप्रत्यया20 त्मकः । कथम् ? उत्पादविगमध्रौव्यलक्षणं सत् , गुणपर्ययवद्रव्यम् , जीवश्चैतन्य
स्वभावः इति श्रुतेः। प्रमाणान्तराधिनं पूर्वीपराऽविरोधश्चाऽविसंवादः। तदपेक्षोऽयं नयः। ततोऽन्यथा दुर्नयः। कथम् ? बहिरपि स्वलक्षणमर्थक्रियासमर्थ सदङ्गीकृत्य, तत्प्रतिक्षेपेण विज्ञप्तिमात्रमन्तस्तत्त्वमिति प्रत्यवस्थाप्य, तदतिसूक्ष्मेक्षिकया निरीक्ष
माणं न परीक्षाक्षममिति स्वभावनैरात्म्यमसाध्यसाधनमाकुलं प्रलपन्न क्वचिद्यवतिष्ठेत 25 स्वपरविसंवादव्यसनीयेन प्रत्यक्षादिविरोधात् । तदन्यतमस्याभिमतत्वात् पुनरलं
शेषप्रलापेन ॥४२॥ [$ ४४. इदानीं ऋजुसूत्रनयं साभासं दर्शयन्नाह-]
ऋजुसूत्रस्य पर्यायः प्रधानं चित्रसंविदः।
चेतनाणुसमूहत्वात् स्याङ्गेदानुपलक्षणम् ॥४३॥ १ पर्यायं नास्ति ई०। २ 'वा' नास्ति ज०। ३ बलं ई०। ४ 'सोस्ति' नास्ति ई०। ५-प्रशम० लघी०। ६-बाधने ज०। ७ पूर्वापरविरोधश्च विसंवादः ई०। ८ 'शेष नास्ति ई० ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org