________________
कारि० ३८-४३ ]
२. नयप्रवेशः
यवान् व्यामोति सकृदपि तदात्मकत्वात् तथैव द्रव्यं स्वपर्यायभेदान् स्वयमभेदकत्वात्तेषां स्वभावानामिति । एवम्
[१३९. तत्र परसङ्ग्रहं प्रदर्शयितुमाह - ]
सङ्ग्रहः सर्वभेदैक्यमभिप्रैति सदात्मना । ब्रह्मवादस्तदाभासः स्वार्थभेदनिराकृतेः ॥ ३८॥
afe afraदात्मा भेदोऽस्ति विरोधात् । यद्यदात्मकं तत्तदेव यथा स्वनिसभेदात्मकं ज्ञानम्, तस्मात्सदात्मनो भेदाः सन्मात्रमेव नान्यदिति सङ्ग्रहः तत्प्राधान्यान तु भेदप्रतिक्षेपात् । स्वपर्यायभेदानपेक्षया तत्प्रतिरूपकत्वं ब्रह्मवादवत् ॥ ३८ ॥ [$४०. अधुना नैगमतदाभासप्ररूपणार्थमाह-]
Jain Education International
अन्योन्यगुणभूतैकभेदाभेदप्ररूपणात् । नैगमोऽर्थान्तरत्वोक्तौ नैगमाभास इष्यते ॥ ३९॥
१३
For Private & Personal Use Only
5
स्वलक्षणभेदाऽभेदयोरन्यतरस्य प्ररूपणायाम् इतरो गुणः स्यात् इति नैगमः । यथा जीवस्वरूपनिरूपणायां गुणाः सुखदुःखादयः, तत्प्ररूपणायां चात्मा । तदर्थान्तरताभिसन्धिः नैगमाभासः । कथम् ? गुणगुणिनाम् अवयवावयविनां क्रियाकारकाणां जातितद्वताञ्च मिथोऽर्थान्तरत्वे सर्वथा वृतिविरोधात् । एकमनेकत्र 15 वर्त्तमानं प्रत्येकं सर्वात्मना यदि स्यात् ; तदेकमित्येवं न स्यात् । यदि पुनः एकदेशेन वर्त्तेत; तदेकदेशेष्वपि तथैव प्रसङ्गात् क्व किं वर्त्तेत ? ॥ ३६ ॥
[$४१. एवं गुणगुण्यादीनां भेदैकान्तं निराकृत्य सत्तातद्वतां तं निराकर्त्तुमाह - ] स्वताऽर्थः सन्तु सत्तावत् सत्तया किं सदात्मनाम् । असदात्मसु नैषा स्यात् सर्वथाऽतिप्रसङ्गतः ॥४०॥
यथा सदर्थान्तराणि स्वतः सन्ति तथैव द्रव्यगुणकर्माण्येव सन्तु किं तत्र सत्तासमवायेन ? स्वतः सतां तद्वैयर्थ्यात् असतां चातिप्रसङ्गात् । तदेवमवान्तरजातिष्वपि योज्यम् । गोत्वादेः सर्वगतत्वे तत्प्रत्ययसाङ्कर्यम्, अन्यथा निष्क्रियस्य अर्थोत्पित्सुदेशमव्याप्नुवतः अनंशस्य अनेकत्र कदाचित्कवर्त्तनमयुक्तम् । गुणगुण्यादीनामन्योन्यात्मकत्वे न किञ्चिद्विरुद्धमित्यलं प्रसङ्गेन । गुणानां वृत्तं चलं 25 सच्वरजस्तमसां सुखज्ञानादिकं चैतन्यं पुरुषस्य स्वरूपमचलमित्येतदपि तादृगेव; तदर्थान्तरताऽसिद्धेः, अतिप्रसङ्गश्चैवं तदभेदे विरोधाभावात् । गुणानां दृश्यादृश्यात्मकत्वे पुंसामेव तदात्मकत्वं युक्तं कृतं गुणकल्पनया ||४०||
[$ ४२. अधुना प्रमाणाभावात् तदाभासतां तयोर्दर्शयितुमाह-- ]
१ - त्वात्स्व- ई० । २-स्मात्तदात्मानो ई० । ३-न्तरतोक्तौ ज० । ४-यव्यवयवक्रि - ई० ।
10
20
www.jainelibrary.org