________________
15
लघीयलये
[५ नयपरि० [३६. एवं प्रतिभासबलेन स्वपरमतविधिप्रतिषेधावभिधाय साम्प्रतमर्थक्रियाकारित्वबलेन तौ प्रतिपादयितुकामः प्रथमं क्षणिकैकान्ते अर्थक्रियां निराकुर्वन्नाह-]
लक्षणं क्षणिकैकान्ते नार्थस्यार्थक्रिया सति ।
कारणे कार्यभावश्चेत् कार्यकारणलक्षणम् ॥३५॥ 5 सह क्रमेण वा अर्थक्रियाम् अक्षणिकस्य निराचिकीर्षुः कथञ्चित्क्षणिके अर्थक्रियां साधयेत् , अन्यथा तल्लक्षणं सत्त्वं ततो व्यावर्तेत । नच क्षणिकानामनिश्चयात्मनां भावानां प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः सिद्धयेत् विप्रकृष्टाऽर्थान्तरवत् । 'यस्मिन् सत्येव यद्भावः तत्तस्य कार्यम् इतरत् कारणम्' इति लक्षणं
क्षणभङ्गे न सम्भवत्येव कार्यकारणयोः सहभावापतेः; अन्यथा क्षणभङ्गभङ्ग10 प्रसङ्गात् ॥३॥
[६३७. ननु यस्मिन्निति सप्तमी कारणभावे कार्यभावं सूचयति, स च पूर्वमेव स्वसत्ताक्षणे कारणे सति उत्तरक्षणे कार्यभावो न विरुध्यते, यथा गोषु दुह्यमानासु गत: दुग्धासु आगत इति । समसमयभावित्वे चानयोः कार्यकारणभावविरोधात् सव्येतरगोविषाणवत् इत्यारेकापनोदर्थमाह-]
कार्योत्पत्तिविरुद्धा चेत् स्वयं कारणसत्तया ।
युज्येत क्षणिकेऽर्थेऽर्थक्रियासम्भवसाधनम् ॥३६॥ ___नहि कार्योत्पत्तिः कारणस्याभावं प्रतीक्षते, यतः तदर्थक्रिया अक्षणिकत्वे विरुद्धयेत । निष्कारणस्य अन्यानपेक्षया देशकालनियमायोगात सर्वत्र सर्वदा सर्वथैव भावानुषङ्गात् । तदयं भावाऽभावयोः कार्यकारणतां लक्षयेत् सर्वथा भावस्यैव
वा । स्खलक्षणस्य क्वचित् प्रत्यक्षानुपलम्भाऽसिद्धेः कुतः कार्यव्यतिरेकोपलक्षणं 20 कारणशक्तेः ? ॥३६॥ .
[६३८. कार्यस्य देशवत् कालेऽपि असत एव कारणादेव उदयोपगमात् , कथमन्यथा जाग्रद्विज्ञानात् प्रबोधः भाविमरणादेर्वा अरिष्टादिकमित्याशङ्कयाह-]
यथैकं भिन्नदेशार्थान् कुर्यायाप्नोति वा सकृत् ।
तथैकं भिन्नकालार्थान् कुर्याध्यामोति वा क्रमात् ॥३७॥ यथा क्षणिकं स्वलक्षणं नानादिग्देशभावीनि कार्याणि स्थानसङ्करव्यतिकरव्यतिरेकेण करोति तत्करणैकस्वभावत्वात् । नहि सामग्रीभेदात् कार्यभेदेऽपि तत्कारणस्वभावभेदः। तथैकमक्षणिकं कारणं यद्यदोत्पित्सु कार्य तत्चदैव करोति तत्करणैकस्वभावत्वात् । सर्वदा कार्यकालानतिक्रमेण कारणसामर्थ्यात् तदात्मकमेकमेव इत्यविरुद्धम् । यथा विज्ञानं स्वनिर्भासभेदान् गुणी गुणान् अवयवी अव
१ कारिकेयं मुद्रितलघीस्त्रये नास्ति । २ लक्षणभङ्गे ज० । ३ कार्यस्योत्प- ई० । ४ कारणसिद्धः ई०। ५ करण- ई० ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org