________________
कारि० ३१-३७ ]
२. नयप्रवेशः र्थिकश्च । द्रवति द्रोष्यति अदुंद्रवत् इति द्रव्यम् , तदेवार्थोऽस्ति यस्य सो द्रव्यार्थिकः । सोऽभेदाश्रयः ॥३०॥
[६३२. ननु सकलभावानां देशकालाकारैरत्यन्तभेदात् नाभेदो नाम, अतः कथमसौ अभेदाश्रयः स्यादित्यारेकापनोदार्थमाह-]
जीवाजीवप्रभेदा यदन्तीनास्तदस्ति सत् ।
एकं यथा स्वनिर्भासि ज्ञानं जीवः स्वपर्ययैः ॥३१॥ . यथैव ज्ञानस्य आत्मनिभा (निर्भा) सभेदा नैकत्वं बाधन्ते जीवस्य अजीवस्य वा कस्यचित् स्वगुणपर्यायाः, तथैव सत्त्वस्य भेदा जीवाजीवादयः । तदेवम् - [$ ३३. तस्मिन् सत्त्वे एवमुक्तप्रकारेण जीवाजीवात्मके स्थिते सति-] शुद्धं द्रव्यमभिप्रेति सङ्ग्रहस्तदभेदतः।
10 भेदानां नाऽसदात्मैकोप्यस्ति भेदो विरोधतः॥३२॥ सर्वमेकं सदविशेषादिति सङ्ग्रहः। सतां च स्वभावानां भावकत्वाबाधनात् । नहि कश्चिदसदात्मा भेदोऽस्ति विप्रतिषेधात् । नहि किश्चिज्ज्ञानं सद्रूपं द्रव्यमनवबुद्ध्य भेदं गृह्णाति नाम ॥३२॥
[६३४.अत्राह सौगतः-यदुक्तम्-'यथा ज्ञानस्य आत्मनिर्भासभेदा नैकत्वं बाधन्ते' इति; 15 तदयुक्तम् ; निरंशैकज्ञानोपगमात् । पुरुषाद्वैतवाद्यपि आह-निस्तरङ्गं पुरुषमानं तत्त्वं जीवाजीवपूभेदः पुनरुपप्लवः, ततो 'जीवस्याऽजीवस्य वा' इत्याद्यप्ययुक्तमित्याशङ्कयाह-]
प्रत्यक्षं बहिरन्तश्च भेदाज्ञानं सदात्मना ।
द्रव्यं स्वलक्षणं शंसेरेदात्सामान्यलक्षणम् ॥३३॥ __ स्वार्थभेदानवबोधेऽपि भ्रान्तं ज्ञानं सर्व सद्रूपेण प्रत्यक्षं द्रव्यं स्वलक्षणं 20 विद्यात् , अन्यथा भ्रान्तेरभावप्रसङ्गात् ॥३३॥
[$३५. ननु प्रतिक्षणविलक्षणज्ञानादिक्षणव्यतिरिक्तस्य जीवादिद्रव्यस्यासंभवात्कथं 'द्रव्यं शंसेत्' इत्याद्युक्तं शोभेत ? इत्याशङ्कयाह-]
सदसत्स्वार्थनिर्भासैः सहक्रमविवर्तिभिः। दृश्यादृश्यैर्विभात्येकं भेदैः स्वयमभेदकैः॥३४॥
25 यथैकं क्षणिकं ज्ञानं सद्भिरसद्भिर्वा प्रतिभासभेदैः स्वयमभेदकैरिष्टं तथैकं द्रव्यं सहक्रममाविभिः स्वयमभेदकैः भेदैः दृश्यैरदृश्यैश्च अनादिनिधनमवगन्तव्यम् । बहिरिव ज्ञानपरमाणुसञ्चये पुनः अन्योन्यानात्मकत्वे सर्वथाऽसङ्क्रमव्यवस्थायामेकस्थूलनिर्भासविरोधात् ॥३४॥
१ प्रद्रवत् ज० । २ जीवादयः ज०।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org