________________
लघीयनये
[ ४ भागमपरि० ___नहि पुरुषार्थाभिसन्धयः सर्वे' अर्थान् व्यभिचरन्ति, अन्यथा वागर्थव्यभिचारैकान्तसम्भवात् । वाचोऽभिप्रायविसंवादे कुतस्तदनुमानम् ? सुगतेतरयोः आप्तेतरव्यवस्थां कुतश्चित् साधनासाधनाङ्गव्यवस्थां वा स्वयमुपजीवन् ३) “वक्तुरभिप्रेतं तु वाचः सूचयन्त्यविशेषेण नार्थतत्त्वमपि'' इति कथमविक्लवः ? ॥२८॥ 5 [६३० अत्राह सौगतः-वक्तुरभिप्रायेऽपि यदि वचनस्य प्रामाण्यं नास्ति, माभूत् , किन्नष्ट प्रमाणद्वयवादिनः ? व्यवहारिजनानुरोधादेव तत्र तस्य प्रामाण्याभ्युपगमात् इत्याशङ्कयाह-]
पुंसश्चित्राभिसन्धेश्चेद् वागर्थव्यभिचारिणी।
कार्यं दृष्टं विजातीयात् शक्यं कारणभेदि किम् ॥२९॥
श्रुतेर्बहुलं बहिराविसंवादेऽपि तदर्थप्रतिबन्धासिद्धेः वक्त्रभिप्रायानुविधा10 यिन्याः सर्वत्र तदर्थानाश्वासः इति चेत् ; उनमत्र 'तादात्म्यतदुत्पत्तिभ्यां विनापि
परोक्षार्थप्रतिपत्रविसंवादः' इति । अपि च वृक्षोऽयं शिंशपात्वात् अग्निरत्र धूमादिति वा कथमाश्वासः क्वचिल्लताचूतादेरुपलब्धेः शिंशपायाः स्वयमवृक्षत्वेप्यविरोधात् ? काष्ठजन्मनो मण्यादिसामग्रीप्रभवस्य अशनिजन्मनः तदर्थान्तरजन्मनश्च साकल्येन
अग्निस्वभावाविरोधे पुनः 'अग्निजन्मैव धूमो नार्थान्तरजन्मा' इति कुतोऽयं नियमः ? 15 यतः कार्यहेतोरव्यभिचारात् धूमादग्निरत्र इत्याश्वासः । कस्यचिदन्यथानुपपत्त्या
परोक्षार्थप्रतिपत्तौ श्रुतज्ञानस्य स्वयमदृष्टतादात्म्यतदुत्पतेः क्वचिदविसम्वादस्य अन्यथानुपपतेः सिद्धं प्रामाण्यमिति ॥२६॥ इति श्रीमद्भट्टाकलङ्कविरचिते न्यायकुमुदचन्द्रे (? लघीयस्त्रये ) परोक्तागमखण्डने
खप्रणीतागमस्थापने चतुर्थः परिच्छेदः ॥ 20 एवमन्तभूतप्रत्यक्षादिपरिच्छेदचतुष्टयः प्रमाणप्रवेशः परिच्छेदः समाप्तः । न्यायकु० ।
२.द्वितीयो नयप्रवेशः।
-- -- [ ६ ३१. अथ प्रमाणं परीक्ष्येदानी नयपरीक्षार्थमुपक्रमते--]
भेदाभेदात्मके ज्ञेये भेदाभेदाभिसन्धयः ।
ये तेऽपेक्षाऽनपेक्षाभ्यां लक्ष्यन्ते नयदुर्नयाः ॥३०॥ द्रव्यपर्यायात्मकमुत्पादव्ययध्रौव्ययुक्तं सत् प्रमेयं वस्तुतत्त्वम्, तत्रैव कथश्चित् प्रमाणतदाभासयोर्भेदात् । नयो ज्ञातुरभिप्रायः । स द्रव्यार्थिकः, पर्याया
१ सर्वर्थान् ज० । २ कार्यदृष्टं ई० । ३ प्रमाणप्रवेश (शः) प्रथमः परिच्छेदः समाप्तः । ई० । ४ एतेमु० लघी।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org