SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कारि० २४-३० ] १. प्रमाणप्रवेशः प्रतिसंविदितोत्पत्तिव्ययाः सत्योपि कल्पनाः । प्रत्यक्षेषु न लक्ष्येरंस्तत्स्वलक्षणभेदवत् ॥२४॥ सदृशापरापरोत्पत्तिविप्रलम्भात् तद्विशेषादर्शिनोऽनवधारणम् असमीक्षिताभिधानम् ; सर्वथा तत्सादृश्यानिष्टेः । प्रतिसंहारैकान्तः संभवति न वेति चिन्त्यमेतत् । कथश्च प्रत्यक्षबुद्धयः सर्वथाऽविकल्पाः पुनर्विकल्पेरन् ! ||२४|| [g २६. ततः स्थितमर्थमुपदर्शयन्नाह - ] 5 अक्षधीः स्मृतिसंज्ञाभिश्चिन्तयाऽऽभिनिबोधिकैः । व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा ॥ २५ ॥ प्रत्यक्षस्मृतिप्रत्यभिज्ञोहानुमानादिभिः अविसंवादसिद्धेः अर्थेषु तत्प्रामाण्यम्, अन्यथा तदाभासव्यवस्था । तथैव श्रुतज्ञानतदाभासव्यवस्था ||२५|| [$ २७. ननु श्रुतज्ञानं प्रमाणमेव न भवति तत्कथं तद्व्यवस्था इत्याशङ्कयाह-] प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपान्तरादिषु । अनाश्वासं न कुर्वीरन् कचित्तद्व्यभिचारतः ॥२३॥ श्रुतज्ञानं वक्त्रभिप्रायादर्थान्तरेऽपि प्रमाणम् । कथमन्यथा द्वीपदेशनदीपर्वतादिकमदृष्टस्वभावकार्यं दिग्विभागेन देशान्तरस्थं प्रतिपत्तुमर्हति निरारेकमविसंवादं चं ॥२६॥ [8२८. ननु चार्थाभावेऽपि श्रुतेः प्रायः प्रवृत्तिदर्शनान्न कचिदप्यसौ प्रमाणमित्याशङ्कयाह-] प्रायः श्रुतेर्विसंवादात् प्रतिबन्धमपश्यताम् । सर्वत्र चेदनाश्वासः सोऽक्षलिङ्गधियां समः ॥२७॥ Jain Education International ह आप्तोक्तेर्हेतुवादाच्च बहिरर्थाविनिश्चये । सत्येतरव्यवस्था का साधनेतरता कुतः १ ॥ २८ ॥ १ 'च' नास्ति ई०, ज० । २-भि- ज० । ३-धानमवि- ई० । ४ क्षत- ई० । २ For Private & Personal Use Only 10 नहि इन्द्रियज्ञानम् अभ्रान्तमव्यभिचारीति वा विशेषणमन्तरेण प्रमाणम् अतिप्रसङ्गात् । तथाविशेषणे श्रुतज्ञाने कोऽपरितोषः १ यथा कृतिकादेः शकटादिज्ञानं स्वभावप्रतिबन्धमन्तरेण तथैवादृष्टप्रतिबन्धार्थाभिधानं ज्ञानमविसंवादकम् । नहि egsनुपपन्नं नाम । क्वचिद् व्यभिचारे साकल्येनाऽनाश्वासे वक्त्रभिप्रायेऽपि वाचः कथमनाश्वासो न स्यात् तत्रापि व्यभिचारसम्भवात् । तथाऽनिच्छतः श्रुतिकल्पना- 25 दुष्टादेः उच्चारणात् ||२७|| [१२९. किञ्च - ] 15 20 www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy