________________
लघीयत्रये
[४ आगमपरि० चिरनुमानात् +प्रमाणान्तरं नवेति किनश्चिन्तया सर्वस्य परोक्षेऽन्तर्भावात्। । तत्समजसं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे अन्यथा तत्सङ्ख्यानवस्थानात् ॥२१॥ इति श्रीमद्भट्टाकलङ्कविरचिते न्यायकुमुदचन्द्रोदये (? लघीयस्त्रये) परपरिकल्पितानुमानादिग्वण्डने स्वमतपूणीतपूमाणद्वयव्यवस्थापने तृतीयः परिच्छेदः ।।
--
- प्रमाणप्रवेशे चतुर्थः आगमपरिच्छेदः।
->[६२३. अथ पूमाणाभासत्वेन प्रसिद्ध विज्ञानं कथश्चिदेव तदाभासं न सर्वथेति प्रदर्शयन्नाह-]
प्रत्यक्षाभं कथञ्चित्स्यात् प्रमाणं तमिरादिकम् ।
यद्यथैवाविसंवादि प्रमाणं तत्तथा मतम् ॥२२॥ 10 तिमिराद्युपप्लवज्ञानं चन्द्रादावविसंवादकं प्रमाणम् यथा तत्सङ्ख्यादौ विसम्वा
दकत्वादप्रमाणं प्रमाणेतरव्यवस्थायाः तल्लक्षणत्वात् । नहि ज्ञानं यदप्यनुकरोति तत्र प्रमाणमेव समारोपव्यवच्छेदाकाङ्क्षणात् । कथमन्यथा दृष्टे प्रमाणान्तरवृत्तिः कृतस्य करणायोगात् ? तदेकान्तहानेः कथञ्चित्करणानिष्टेः । तदस्य विसंवादोप्य
वस्तुनिर्भासात् चन्द्रादिवस्तुनिर्भासानाम् अविसम्वादकत्वात् ॥२२॥ 15 [२४. साम्प्रतं कल्पनापदेन यत्परेण तदाभासमुक्तं तदपि प्रत्यक्षं साधयन्नाह-]
स्वसंवेद्य विकल्पानां विशदार्थावभासनम् ।
संहृताशेषचिन्तायां सविकल्पावभासनात् ॥२३॥ सर्वतः संहृत्य चिन्तां स्तिमितान्तरात्मना स्थितोऽपिचक्षुषा रूपं संस्थानात्मकं स्थूलात्मकमेकं सूक्ष्मानेकस्वभावं पश्यति न पुनः असाधारणैकान्तं स्वलक्षणम् । 20 प्रतिसंहारव्युत्थितचित्तस्य तथैवाऽस्मरणात् । तस्मादविशदमेव अविकल्पकं प्रत्य
क्षाभम् । न विशदेतरविकल्पयोः विषयभेदैकान्तः प्रत्यासन्नेतरार्थप्रत्यक्षाणाम् एकार्थवियषतोपपत्तेः ॥२३॥
[६२५. न हीमाः कल्पना अतिसंविदिता एवोदयन्ते व्ययन्ते च यतः सत्योऽप्यनुपलक्षिताः स्युरिति । तद्बषयन्नाह-]
+ एतदन्तर्गतः पाठो नास्ति ई० । १ इति न्यायकुमुदचन्द्रे (?) परोक्षप्रमाणसंख्यास्वरूपप्रतिपादकः तृतीयोऽन्तर्भूतः परिच्छेदः ॥छ। ई०। २-हारंव्यु- ई० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org