________________
कारि० १५-२१]
१. प्रमाणप्रवेशः
स्वत एवाऽनिश्चयात् । निश्चयान्तरपरिकल्पनायामनवस्थानात् कुतः तत्संव्यवहारसिद्धिः १ ततः स्वार्थेऽपि कथञ्चिदभिलापसंसर्गयोग्यायोग्य विनिर्भासैकज्ञानं प्रतिपत्तव्यं स्वरूपवत् ॥१८॥
[$ २०. एवं परं प्रति तर्कादिकं प्रमाणान्तरं प्रतिपाद्य इदानीमुपमानस्य प्रमाणान्तरत्वनियमं विधुरयन्नाह - ]
उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैधर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥१९॥
प्रसिद्धार्थसाधर्म्यमन्यथानुपपन्नत्वेन निर्णीतञ्चेत् लिङ्गमेव, ततः प्रतिपत्तिरन्यथा न युज्यते । प्रत्यक्षेऽर्थे संज्ञासंज्ञिसम्बन्धप्रतिपत्तेः प्रमाणान्तरत्वे वृक्षोऽयमिति ज्ञानं वृक्षदर्शिनः प्रमाणान्तरम् गवयोऽयमिति यथा गवयदर्शिनः, प्रसिद्धार्थसाध - 10 र्यात् साध्यसिद्धेरभावात् गौरिव गवयः इति श्रुत्वा गवयदर्शिनः तन्नामप्रतिपत्तिवत् । प्रत्यक्षेषु इतरेषु तिर्यभुं तस्यैव पुनरगवयनिश्चयः किन्नाम प्रमाणम् ? हानोपादानोपेक्षाप्रतिपचिफैलं नाप्रमाणं भवितुमर्हति ॥ १६ ॥
[$ २१ तथा अपरमपि परस्य अनिष्टं प्रमाणं दर्शयन्नाह - ]
प्रत्यक्षार्थान्तरापेक्षा सम्बन्धप्रतिपद्यतः । तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ॥ २०॥
Jain Education International
आगमाहितसंस्कारस्य तदर्थदर्शिनः तन्नामप्रतिपत्तिः साकल्येन प्रमाणमप्रमाणं वा न पुनरुपमानमेव । यथा एतस्मात्पूर्वं पश्चिममुत्तरं दक्षिणं वा ग्रामधानकॅमेतन्नामकमित्याहितसंस्कारस्य पुनस्तद्दर्शिनः तन्नामप्रतिपत्तिः । कश्चार्य निश्चयः संज्ञासंज्ञिसम्प्रतिपत्तिसाधनमेव समक्षेऽर्थे प्रमाणान्तरं न पुनः सङ्ख्यादिप्रतिपत्ति - 20 साधनमिति १ ॥२०॥
[8 २२. एतदेव दर्शयन्नाह - ]
इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा । व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनान्तरम् ॥२१॥
5
१ युज्येत ज० । २ 'तिर्यक्षु' नास्ति ई० । ३- तिप्रमाणं ई० । ४-कं ये तन्नाम - ई० । ५ संज्ञासम्प्रति- ज० । ६- रंव्य - ई० । ७ अल्पबहुत्वादि - ई० ।
दृष्टेष्वर्थेषु परस्परैव्यपेक्षालक्षणम् अल्प महत्त्वादिज्ञानम् अधरोत्तरादिज्ञानं 25 द्वित्वादिसङ्ख्याज्ञानम् अन्यच्च प्रमाणम्, अविसम्वादकत्वात् उपमानवत् । अर्थाप
15
For Private & Personal Use Only
www.jainelibrary.org