SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ . कारि०८-१४] १. प्रमाणप्रवेशः अविसंवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा । स्मृतिः संज्ञायाः प्रत्यवमर्शस्य । संज्ञा चिन्तायाः तर्कस्य । चिन्ता अभिनिबोधस्य अनुमानादेः । प्राक् शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ॥१०॥ [६१२. ननु व्याप्तिप्रतीत्यर्थं तर्कलक्षणप्रमाणाभ्युपगमोऽनुपपन्नः प्रत्यक्षतोऽनुमानतो वा तस्याः प्रतीतिसिद्धेः इत्याशङ्कां निराकुर्वन्नाह-] अविकल्पधिया लिङ्गं न किश्चित्सम्प्रतीयते ॥११॥ नानुमानादसिद्धत्वात् प्रमाणान्तरमाञ्जसम् । नहि प्रत्यक्षं 'यावान् कश्चिद्धमः कालान्तरे देशान्तरे च पावकस्यैव कार्य नार्थान्तरस्य' इतीयतो व्यापारान् का समर्थ सन्निहितविषयबलोत्पत्तेरविचारकत्वात् । नाप्यनुमानान्तरम् ; सर्वत्राऽविशेषात् । नहि साकल्येन लिङ्गस्य लिङ्गिना 10 ध्याप्तेरसिद्धौ क्वचित् किश्चिदनुमानं नाम । २) तनाप्रत्यक्षमनुमानव्यतिरिक्तं प्रमा- . णम्” इत्ययुक्तम् ; लिङ्गप्रतिपत्ते प्रमाणान्तरत्वात् ॥११॥ [६ १३. कीदृशं तदनुमानमित्याह-] लिङ्गात्साध्याविनाभावाभिनिबोधैकलक्षणात् ॥१२॥ लिङ्गिधीरनुमानं तत्फलं हानादिबुद्धयः। नहि तादात्म्यतदुत्पत्ती ज्ञातुं शक्यते विनाऽन्यथानुपपतिवितर्केण, ताभ्यां विनैव एकलक्षणसिद्धिः । नहि वृक्षादिः छायादेः स्वभावः कार्यं वा । नचात्र विसंवादोऽस्ति ॥१२॥ [६१४. अत्रैवार्थ दृष्टान्तान्तरमाह-] चन्द्रादेर्जलचन्द्रादिप्रतिपत्तिस्तथानुमा ॥१३॥ नहि जलचन्द्रादेः चन्द्रादिः स्वभावः कार्य वा ॥१३॥ [१५. अपरमपि कार्यादिभ्योऽर्थान्तरं हेतुमुपदर्शयति-] भविष्यत्प्रतिपद्येत शकटं कृतिकोदयात् । श्व आदित्य उदेतेति ग्रहणं वा भविष्यति ॥१४॥ तदेतद्भविष्यद्विषयमविसंवादकं ज्ञानं प्रतिबन्धसङ्ख्या प्रमाणसङ्ख्याञ्च प्रति- 25 रुणद्धि ॥१४॥ 15 १न प्रत्य- न्यायकु०। २-तियतो ज० । ३-नमान्त- ई०। ४ व्याप्तिर- ज० । ५-पत्तितर्केण न्यायकु०।-पत्तिवित-ज० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy