________________
5
लघीयत्रये
[२ प्रमेयपरि० क्षणं सामान्यलक्षणं वा परस्परानात्मकं प्रमेयं यथा मन्यते परैः; द्रव्यपर्यायात्मनोऽर्थस्य बुद्धौ प्रतिभासनात् । न केवलं साक्षात्करणमेकान्ते न संभवति; अपितु
अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः ।
क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता ॥८॥ 'अर्थक्रियासमर्थ परमार्थसत्' अङ्गीकृत्य स्वपक्षे पुनरर्थक्रियां स्वयमेव निराकुर्वन् कथमनुन्मत्तः ? स्वभूतिमात्रमर्थक्रियां विपक्षेऽपि कथं निरस्येत् , मिथ्याव्यवहारं वा ? संवित्तेरभेदेऽपि विषयाकारस्यैव विषयसाधनत्वं नाकारान्तरस्य । ततः
[$6. तस्माद् विषयाकारस्य विषयसाधनत्वात्-] ___नाभेदेऽपि विरुद्धयेत् विक्रिया विक्रियैव वा।
परमार्थंकत्वेऽपि मिथ्याव्यवहारभेदात् ज्ञानस्यानेकार्थक्रियाकारिणः प्रतिभासाः परमार्थासंवेदिनः तत्त्वं भेदाभेदात्मकं साधयन्ति ।
[$१०. एवं तावत् सौत्रान्तिकमतमनेकान्तनान्तरीयकं प्रदर्य साम्प्रतं योगाचारमतं तन्नान्तरीयकं प्रदर्शयन्नाह-]
मिथ्येतरात्मकं दृश्यादृश्यभेदेतरात्मकम् ॥१॥
चित्तं सदसदात्मकं तत्त्वं साधयति स्वतः। चित्रनिर्भासिनः तच्चमविभागविज्ञानस्य दृश्यं यदि क्रमेणापि सदसदात्मकं विवर्तेत ततः सिद्धं द्रव्यपर्यायात्मकम् उत्पादव्ययध्रौव्ययुक्तं वस्तुतत्त्वमन्तर्बहिश्च प्रमेयम् । एकान्तस्यानुपलब्धेः तदनेकान्तात्माऽर्थः इति ॥६॥ इति श्रीभट्टाकलङ्कविरचिते न्यायकुमुदचन्द्रोदये ( ? लघीयत्रये ) परपरिकल्पितद्रव्यखण्डनमने
कान्तनयेन द्रव्यव्यवस्थापनं नाम द्वितीयः परि छेदः ॥
10
15
20
प्रमाणप्रवेशे तृतीयः परोक्षपरिच्छेदः।
-> e[६११. अथेदानीं परोक्षप्रमाणप्ररूपणायाह-]
ज्ञानमाद्य मतिःसंज्ञा चिन्ता वा (चा) भिनिबोधिकम् ॥१०॥
प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् । १ 'अविक्रियेव वा' इत्यपि पाठः न्यायकु० । २-गज्ञान- न्यायकु० । ३ इति न्यायकुमुदचन्द्रे (?) प्रमेयस्वरूपप्रतिपादकः द्वितीयः परिच्छेदः समाप्तः। ई०। ४-बोधकम् ई०।-बोधनम् म० लघी० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org